SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे मिलन्ति मिलित्वा यत्रैव सिन्धु महानदी तत्रैवोपागच्छति उपागत्य वालुकासंस्तारकान् संस्तुणन्ति संस्तीर्य घालुकासंस्तारकान् दुरूहन्ति, दुरूह्य अष्टमभक्तानि प्रगृलन्ति, प्रगृह्य वालुका संस्तारोपगताः उत्सामकाः अवसनाः अष्टभक्तिकाः ये तेषां कुलदेवताः मेघमुखाः नाम्ना मागकुमागः देवास्तान् मनसि कुर्वन्त स्तिष्ठन्ति । ततः खलु तेषाम् आपातकिरातानाम् भष्टमभक्ते परिणमति सति मेघमुखानां नागकुमाराणं देवानामासनानि चलन्ति, ततः खलु ते मेघमुखाः नागकुमारा: देवाः आसनानि चलितानि पश्यन्ति, दृष्ट्वा अवधि प्रयुञ्जन्ति प्रयुज्य आपातकिरातान् अवधिना आभोगयन्ति, आभोग्य अन्योऽन्य शब्दयन्ति शब्दयित्वा एवम् अधादिषुः एवं खलु देवानुप्रियाः ! जम्बूद्वीपे द्वीपे उत्तरार्द्धभरते वर्षे आपातकिराताः सिन्ध्यां महानद्यां वालुकासंस्तारकान् उपगताः उत्तानकाः अवसनाः अष्टमभक्तिकाः अस्मान् कुलदेवतान् मेघमुखानामकान् नागकुमारान् देवान् मनसि कुर्वाणाः मनसि कुर्वाणा स्तिष्ठन्ति, तत् श्रेयः खलु भो देवानुप्रियाः ! अस्माकम् आपातकिरातानाम् अन्तिके प्रादुर्भवितुमितिकन्वा अन्योऽन्यस्यान्तिके एतमर्थ प्रतिशृण्वन्ति, प्रतिश्रुत्य तया उत्कृष्टया त्वरितया यावद् व्यतिघ्रजन्तो ध्यतिव्रजन्तो यत्रैव जम्बूद्वीपो द्वीपो यत्रैव उत्सरभरतार्द्ध वर्ष यत्रैव सिन्धु महानदी यत्रैव आपातकिराताः तत्रैव उपागच्छन्ति, उपागत्य अन्तरिक्षप्रतिपन्नाः सकिकिणोकानि पञ्चवर्णानि वस्त्राणि प्रवराणि परिहितास्तान् आपातकिरातान् एवमवादिषुः हं भो आपातकिराताः ! यत् खलु यूयं देवानुप्रियाः ! वालुकासंस्तारकोपगताः उत्तानका अवसना अष्टमभक्तिका अस्मान् कुलदेवता मेघमुखान् नागकुमारान् देवान् मनसि कुर्वाणा मनसि कुर्वाणा स्तिष्टत, ततः खलु वयं मेघमुखा नागकुमारा देवा युष्माकं कुलदेवता युप्माकमन्तिकं प्रादुर्भूताः तद्वदत खलु देवानुप्रियाः ! किं कुर्मः किं वा भवतां मनः स्वादितम्, ततः खलु ते आपातकिराताः मेघमुखानां नागकुमाराणां देवानामम्तिके एतमर्थ श्रुत्वा निशम्य हृष्ट तुष्ट चित्तानन्दिता यावदहृदया उत्थया उत्तिष्ठन्ति, उत्थाय यत्रैव मेघमुखा नागकुमारा देवास्तत्रैव उपागच्छन्ति, उपागत्य करतलपरिगृहीतं यावत् मस्तके अञ्जलि कृत्वा मेघमुखान् नागकुमारान् देवान् जयेन विजयेन वर्द्धयन्ति, पद्धयित्वा एघमवादिषुः एष खलु देवानुप्रियाः। कर अप्रार्थितप्रार्थकः दुरन्तप्रान्तलक्षणः यावत् ही श्री परिवर्जितः यः खलु अस्माकं विषयस्योपरि वीर्येण हव्यमागच्छति, तं तथा खलु प्रक्षिपत हे देवानुप्रियाः ! यथा खलु एषः अस्माकं विषयस्योपरि वीर्येण नो हव्यमागच्छति ततः खलु ते मेघमुखा नागकुमारा देवाः तान् आपातकिरातान् एवमवादिषु- एष स्खलु भो देवानुप्रियाः ! भरतो नाम राजा चातुरन्तचक्रवर्ती महद्धिको यावन्महासौख्यः नो खलु एषः शक्यः केनचिद्देवेन वा दानवेन वा किन्नरेण वा किंपुरुषेण वा महोरगेण वा गंधर्वेण वा शस्त्रप्रयोगेण वा अग्निप्रयोगेण वा मन्त्रप्रयोगेण वा उपद्रवयितुं वा प्रतिषेधयितु वा तथापि च खलु युष्माकं प्रियार्थताय भरतस्य राशः उपसर्ग कुर्मः इति कृत्वा तेषाम् मापातकिरातानाम् अन्तिकादपकामन्ति अपक्रम्य वैक्रियसमुद्घातेन समवनन्ति समपत्य मेघानीकं विकुर्वन्ति विकुळ यत्रैव भरतस्य राज्ञो विजयस्कन्धावारनिवेशः तत्रैवोपगच्छम्ति उपागत्य विजयस्कन्धावारनिवेशस्योपरि क्षिप्रमेव प्रतनुस्तनायन्ते क्षि. प्रमेव विद्युयन्ते विद्युदायित्वा क्षिप्रमेव युगमुसलमुष्टिप्रमाणमिताभि (राभिः भोघमेषं सतरा वर्ष वर्षितुं प्रवृत्तश्चाप्यभवन् ॥ सू० १९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy