SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ - जम्बूद्वीपप्राप्तिसूत्रे हट्ठतुट्ठ चित्तमाणदिए जाव हिअए सुसेणं सेणावई सक्कारेइ सम्माणेइ सक्कारित्ता सम्भोणित्ता कोडुबियपुरिसे सदावेइ सद्दावित्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया! आभिसेक्कं हत्थिरयणं पडिकप्पेह हयगयरह पवर तहेव जाव अंजणगिरिक्डसण्णिभं गयवरं णरवई दुरूढे ॥सू०१४॥ छाया-ततः खलु स भरतो राजा अन्यदा कदाचित् सुषेण सेनापति शब्दयति शब्दयित्वा एवमवादीत् गच्छ खलु क्षिप्रमेव भो देवानुप्रिय ! तमिस्रा गुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ विघाटय, विघाटय मम एतामाज्ञप्तिकां प्रत्यर्पय इति, ततः खलु स सुषेणः सेनापतिः भरतेन राशा एवमुक्तः सन् हृष्टतुष्ट चित्तानन्दितः यावत् करतलपरिगृहोतं शिरसावत्त मस्तके अञ्जलिं कृत्वा यावत् प्रतिशृणोति, प्रतिश्रुत्य भरतस्य राज्ञः अन्तिकात् प्रतिनिष्कामति प्रतिनिष्क्रम्य यत्रैव स्वस्य आवासः यत्रैव पौषधशाला तत्रैवोपागच्छति, उपागत्य दर्भसंस्तारकं संस्तृणाति, यावत् कृतमालस्य देवस्य अष्टमभक्तं प्रगृह्णाति, पौषधशालायां पौषधिक: ब्रह्मचारी यावत् अष्टमभक्ते परिणमति, पौषधशालातः प्रतिनिष्कामति प्रतिनिष्क्रम्य यत्रैव मजनगृहं तत्रैवोपागच्छति, उपागत्य स्नातः कृतवलिकर्मा कृतकौतुकमङ्गलप्रायश्चित्तः शु. छप्रावेशानि मङ्गलानि वस्त्राणि प्रवरपरिहितः अल्पमहा_भरणालङ्कृतशरीरः धूपपुष्पगन्धमाल्यहस्तगतः मजनगृहात् प्रतिनिष्क्रोमति प्रतिनिष्क्रम्य यत्रैव तमिस्राया गुहाय द्वारस्य कपाटौ तत्रैव गमनाय प्रधारितवान् ततः खलु तस्य सुषेणस्य सेनापतेः बहव्यो राजेश्वरतळवरमालम्बिक यावत सार्थवाहप्रभृतयः अप्येकका उत्पलइस्तगता यावत सुषेणं सेनापति पृष्ठतः २ अनुगच्छन्ति, ततः खलु तस्य सुषेणस्य सेनापतेः बयः कुब्जाः चिलात्याः यावत्हङ्गितचिन्तितप्रार्थितविशायिकाः निपुणकुशलाः विनीताः अप्येककाः कलशहस्तगताः यावद् अनुगच्छन्तोति । ततः खलु स सुषेणः सेनापतिः सर्वद्धर्या सर्वयुत्या सर्वद्यु. स्यावा यावत् निर्घोषनादितेन यत्रैव तमिस्रागुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ तत्रैव उपागच्छति उपागत्य आलोके प्रमाण करोति, कृत्वा लोमहस्तकं परामृति परामृश्य तमिस्रागुहायाः दक्षिणात्यस्य द्वारस्य कपाटौ लोमहस्तकेन प्रमार्जयति प्रमार्य दिव्यया उदकधारया अभ्युक्षति, अभ्युक्ष्य सरसेन गोशीर्षचन्दनेन चचितं पञ्चांगुलितलं ददाति दत्वा अग्रः वरैर्गन्धैश्च माल्यैश्च अर्चयति अर्थयित्वा पुष्पारोपण यावत् वस्त्रारोपणं करोति कृत्वा आसक्तोत्सत विपुलवत यावत् करोति कृत्वा अच्छैः प्रलक्ष्णैः रजतमयैः आच्छरसतण्डुलैः तमिस्त्रागुहायाः दाक्षिणात्यस्य द्वारस्थ कपाटयोः पुरतः अष्टाष्टमङ्गलकानि आलिखति तत स्वस्तिक श्रीवत्स यावत् कचग्रहगृहीतकरतल प्रभ्रष्ट चन्द्रप्रभवज्रवैयविमलदण्डं यावत् धूपं दहति, वामं जानुम् अञ्चति अश्चित्वा करतल यावत् मस्तके अञ्जलिकृत्वा कपाटयोः प्रणामं करोति कृत्वा दण्डरत्नं परामृशति, ततः खलु तद् दण्डरत्नं पञ्चलतिकं वज्रसारमयं विनाशनं सर्वशत्रुसेनानां, स्कन्धावारे नरपतेः गर्तदरीविषमप्राग्भार गिरिवर प्रपातानां समीकरण शान्तिकरं शुभकरं हितकरं राशो हृदखेप्सितमनोरथ पूरकं दिव्यमप्रतिहतम्, दण्डरनं गृहीत्वा सप्तष्ट पदानि प्रत्यवश्वष्कते प्रत्यवष्वष्कय तमिस्रागुहायाः दाक्षिणात्यस्य द्वारस्य कपाटौ दण्डरत्नेन महता २ शब्देन त्रिः कृत्व: आकुट्टयति ततः खलु तमिस्रागुहायाः दाक्षिणात्यस्य द्वारस्य कपाटा सुषेणसेनापतिना वण्डरस्नेन महता २ शम्देन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy