SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ जम्बूद्धोपप्राप्तिसूत्रे धवलमहामेहणिग्गए जाव मज्जणघराओ पडिणिक्खमइ पडिणिक्खमित्ता हयगयरहपवखाहण जाव सेणावइ पहियकित्ती जेणेव बाहिरिया उवट्ठाणसाला जेणेव चाउग्घंटे आसरह तेणेव उवागच्छइ उवाग-च्छित्ता चाउग्घटं आसरहं दुरूहे ॥ सू० ५ ॥ छाया-ततः खलु तद्दिव्यं चक्ररत्नम् अष्टाहिकायां महामहिमार्या निर्वृतार्या सत्याम् आयुधगृहशालातः प्रतिनिष्कामति प्रतिनिष्क्रम्य अन्तरिक्षं प्रतिपन्नं यक्षसहस्रसंपरिवृतम्, दिव्यत्रुटितशब्दसन्निनादेन आपूरय दिवाम्बरतलं विनीतायाः राजघान्याः मध्य मध्येन निर्गछति निर्गत्य गङ्गाया महानद्या दाक्षिणात्येन कूलेन पौरस्त्यां दिशं मागधतीर्थाभिमुख प्रयातं अप्यभवत्, ततः स्खलु स भरतो राजा तं दिव्य चक्ररत्नं गङ्गाया महानद्या दाक्षिणात्येन कूलेन पौरस्त्यां दिशं मागधतीर्थाभिमुखं प्रयातं पश्यति, दृष्ट्वा हृष्टतुष्ट यावद्धृदयः कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वा एवमवादीत्-क्षिप्रमेव भो देवानुप्रियाः ! आभिषेक्यं हस्तिरत्नं प्रतिकल्पयत हयगजरथप्रवरयोधकलितां चातुरङ्गिणी सेनां सन्नाहयत, पतामाज्ञप्तिकां प्रत्यर्पयत, ततः खलु ते कौटुम्बिक यावत् प्रत्यर्पयन्ति, ततः खलु स भरतो राजा यत्रैव मज्जनगृहं तत्रैवोपागच्छति उपागत्य मज्जनगृहम् अनुप्रविशति अनुप्रविश्य समुक्तजालाभिरामं तथैव यावत् धवलमहामेघ निर्गत इव शशीव प्रियदर्शनो नरपतिः मज्जनगृहात् प्रतिनिष्क्रामति प्रतिनिष्क्रम्य हयगजरथप्रवरवाहन चउगर पहकरत्ति' विस्तारवृन्दसंकुलया सेनया प्रथितकीर्तिः यत्रैव वाहिरिका उपस्थानशाला यत्रै वाभिषेक्यं हस्तिरत्नं तत्रैवोपागच्छति, उपागत्य अञ्जनगिरिकटकसन्निभं गजपति नरपति दुरूढे । ततः खलु स भरताधिपो नरेन्द्रः हारावस्तृतसुकृतरतिदवक्षस्कः कुण्डलोद् द्योतिताननः मुकुटदीप्तशिरस्कः नरसिंहो नरपति नरेन्द्रो नरवृषभः मरुद्राजवृषभकल्पः अभ्यधिराजतेजो लक्ष्म्या दीप्यमानः प्रशस्तमङ्गलशतैः संस्तूयमानः जयशब्दकृतालोकः हस्तिस्कन्धवरगतः सकोरण्टमाल्यदाम्ना छत्रण ध्रियमाणेन श्वेतवरचामरैरुद्धयमानैः२ पक्ष सहस्रसंपरिवृतः वैश्रमणइव धनपतिः अमरपतेः सन्निभया ऋद्धया प्रथितकीर्तिः गङ्गाया महानद्याः दाक्षिणात्ये कूले ग्रामाकरनगरनेट कर्बट मडम्ब द्रोण नुख पत्तनाऽऽश्रमसंवाह-सहस्रमण्डितां स्तिमितमेदनीकां वसुधाम् अभिजयन् अभिजयन् अग्याणि वराणि रत्नानि प्रती च्छन् २ तद्दिव्यं चकरत्नम् अनुगच्छम् अनुगच्छन् योजनान्तरिताभिर्वसतिभिर्वसन् वसन् यत्रैव मागधतीर्थ तत्रैवोपागच्छति उपागत्य मागधतीर्थस्याऽदूरसामन्ते द्वादशयोजनायाम नवयोजनविस्तीर्ण वरनगरसदृशं विजयस्कन्धावारनिवेशं करोति कृत्वा वर्द्धकिरत्नं शब्दयति शब्दयित्वो एवमवादीत् क्षिप्रमेव भो देवानुप्रियाः ममावासं पौषधशाला च कुरु कृत्वा मम पतामाक्षप्तिका प्रत्यर्पय, ततः खलु स वर्द्धकिरत्नो भरतेन राक्षा एवमुक्तः सन् हष्तुष्ट चित्तानन्दितः प्रीतिमनाः यावत् अञ्जलिं कृत्वा एवं स्वामिन् तथेति आज्ञाया विनयेन वचनं प्रतिशृणोति, प्रतिश्रुत्य भरतस्य राज्ञः आवासं पौषधशालां च करोति, कृत्वा एतामाज्ञप्तिकां क्षिप्रमेव प्रत्यर्पयति, ततः खलु स भरतो राजा आभिषेक्यात् हस्तिरत्नात् प्रत्यवरोहति, प्रत्यबरुह्य यत्रैव पौषधशाला तत्रैवोपागच्छति उपागत्य पौषधशालामनु मविशत, अनुपविश्य पौधशाला प्रमार्जयति प्रमाय॑ दर्भसंस्तारकं संस्तृणाति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy