________________
श्रीदेवसेनविरचितो
अथवैष धर्मो विष्ठां भक्षयन्त्यपि नमनीया ।
तर्हि किं बध्यते दुह्यते ताड्यते दीर्घदण्डेन ॥ अन्यच्च----
मांसं जीवशरीरं जीवशरीरं भवेन वा मांसं ।।
यद्वनिम्बो वृक्षो वृक्षस्तु भवेन्न वा निम्बः ॥ ८॥ आम्रादौ व्यभिचारात् ।
कश्चिदाहेति यत्सर्वं धान्यपुष्पफलादिकं ।
मांसात्मकं न तत्किं स्याज्जीवाङ्गत्वप्रसंगतः ॥ ९ ॥ तदयुक्तमित्याह--
जीवत्वेन हि तुल्या वै यद्यप्यते भवन्तु ते। स्त्रीत्वे सति यथा माता अभक्षं यंगमं तथा? ॥१०॥ यद्वद्गरुडः पक्षी पक्षी न तु एव सर्वगरुडोऽस्ति । रामैव चास्ति माता माता न तु सार्विका रामा ॥ ११ ॥ शुद्धं दुग्धं न गोमांसं वस्तुवैचित्र्यमीदृशं । विषघ्नं रत्नमाहेयं विषं च विपदे मतः ॥ १२ ॥ हेयं पलं पयः पेयं समे सत्यपि कारणे । विषद्रोरायुषे पत्रं मूलं तु मृतये स्मृतं ॥ १३ ॥ पंचगव्यं तु तैरिष्टं गोमांसे सपथः कृतः । तत्पित्तजाऽप्युपादेया प्रतिष्ठादिषु रोचना ॥ १४ ॥ इति हेतोन वक्तव्यं सादृश्यं मांसधान्ययोः। मांसं निन्द्यं न ध्यानं स्यात् प्रसिद्धेयं श्रुतिर्जनैः ॥ १५॥ आगोपालादि यत्सिद्धं धान्यं मांसं पृथक् पृथक् । धान्यमानयमित्युक्ते न कश्चिन्मांसमानयेत् ॥ १६ ॥ ब्राह्मणादिभिः धान्यमासं एक जइ भणियं-(?) स्थावरा जंगमाश्चैव द्विधा जीवाः प्रकीर्तिताः। जंगमेषु भवेन्मांसं फलं तु स्थावरेषु च ॥ १७ ॥ मांसमिन्द्रियसम्पूर्ण सप्तधातुसमाश्रितं ।
यो नरो भक्षयेन्मांसं स भ्रमेत्सागरान्तकम् ॥ १८ ॥ १ जम्मा ख । २ पिट्टिजइ ख ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org