________________
भावसंग्रहः ।
वन्दते गोयोनि सदा तुंडं परिहरति भणित्वाऽपवित्रं ।
विपरीताभिनिवेश एष स्फुटं भवति मिथ्यात्वमपि ॥ पावेण तिरियजम्मे उववण्णा तिणयरी पसू गावी । अविवेया विद्यासी सा कह देवत्तणं पत्ता ॥ ५० ॥
पापेन तिर्यग्जन्मनि उत्पन्ना तृणचारिणी पशुः गौः ।
अविवेकिनी विष्ठाशिनी सा कथं देवत्वं प्राप्ता ।। अहवा एसो धम्मो विहं भक्खंतया वि णमणीया । तो किं वज्झइ दुज्झइ ताडिजेइ दीहदंडेण ॥५१॥ उक्तं च--
न हि हिंसाकृते धर्मः सारम्भे नास्ति मोक्षता । स्त्रीसम्पर्के कुतः शौचं मांसभक्षे कुतो दया ॥१॥ संस्कर्ता चोपहर्ता च षा ( खा) दकश्चैव घातकः । उपदेष्टाऽनुमंता च षडेते समभागिनः॥ २॥ मांसाशनातिशक्ते क्रूरनरे नैव तिष्ठते सुदया। निर्दयमनसि न धर्मों धविहीने च नैव सुखिता स्यात् ॥३॥ तिलसर्षपमात्रं तु यो मांसं भक्षयेद्विजः। स नरकान्न निवर्तेत यावच्चन्द्रदिवाकरौ ॥ ४ ॥ आकाशगामिनो विप्राः पतिता मांसभक्षणात् । विप्राणां पतनं दृष्ट्वा तस्मान्मांसं न भक्षयेत् ॥ ५॥ न कर्दमे भवेन्मांसं न काष्ठेषु तृणेषु च । जीवशरीराद्भवेन्मांसं तस्मान्मांसं न भक्षयेत् ॥ ६ ॥ सर्वं शुक्रं भवेद्ब्रह्मा विष्णुमासं प्रवर्तते ।।
ईश्वरोऽप्यस्ति संघाते तस्मान्मांसं न भक्षयेत् ॥ ७ ॥ अथ वाक्यमाहयद्यन्मांसं तत्तत्सर्वं जीवशरीरमेव स्यात् । एवशब्दो निर्धारणार्थः । यद्यजीवशरीरं तत्सर्व मांसं भवतीति नियमाभावः, कुतः वृक्षादौ व्यभिचारात् । वृक्षादीनां जीवशरीरत्वे सत्यपि मांसाभावात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org