________________
श्रीवामदेवविरचितो
देहास्तित्वेऽस्त्ययोगित्वं कथं तद्वते प्रभोः । देहाभावे कथं ध्यानं दुर्घटं घटते कथम् || ७५६ ||
द्विकलं—
२२६
अतिसूक्ष्मशरीरस्य ह्युपान्त्यसमयावधेः । कायकार्यस्य सूक्ष्मस्य स्वशक्तिविगतात्मनः ॥ ७५७ ॥ अत्यन्तस्वल्पकालेन भाविप्रक्षयसंस्थितेः । अकिंचित्करसामर्थ्यात्तस्मादयोगिता मता ।। ७५८ ॥ तच्छरीराश्रयाद्भयानमस्तीति न विरुद्धयते । निजशुद्धात्मचिद्रूपनिर्भरानन्दशालिनः ।। ७५९ ॥ आत्मानमात्मनात्मैव ध्याता ध्यायति तत्वतः । उपचारस्तदन्यो हि व्यवहारनयाश्रयः ॥ ७६० ।। उपान्त्यसमये तत्र तच्छुद्धात्मप्रचिन्तनात् । द्वासप्ततिर्विलीयन्ते कर्माण्येतान्ययोगिनः ॥ ७६१ ।। देहबन्धनसंघाताः प्रत्येकं पंच पंच च । आङ्गोपाङ्गत्रयं चैव षट्कं संस्थानसंज्ञकम् ।। ७६२ ।। वर्णाः पंच रसाः पंच पट्कं संहननात्मकम् । स्पर्शाष्टकं च गन्धौ द्वौ नीचानादेयदुर्भगम् ॥ ७६३ ॥ तथागुरुलघुत्वाख्यमुपघतोऽन्यथा ततः । निर्मापणम पर्याप्तमुच्छ्वासस्त्वयशस्तथा ॥ ७६४ ॥ विहायगमनद्वन्द्वं शुभस्थैर्यद्वयं पृथक् । गतिर्देव्यानुपूर्वी च प्रत्येकं च स्वरद्वयम् || ७६५ ।।
१ संस्थितं । २ द. ख. । ३ घातता ख. । ४ परघातनामकर्मेत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org