SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः। २२५ आत्मस्पन्दात्मयोगानां क्रिया सूक्ष्माऽनिवर्तिका । यस्मिन् प्रजायते साक्षात्सूक्ष्मक्रियानिवर्तकम् ॥ ७४६॥ बादरकाययोगेऽस्मिन् स्थितिं कृत्वा स्वभावतः। मुक्ष्मीकरोति वाक्चित्तयोगयुग्मं स बादरम् ॥ ७४७ ॥ त्यक्त्वा स्थूलं वपुर्योगं सूक्ष्मवाक्चित्तयोः स्थितिम् । . कृत्वा नयति सूक्ष्मत्वं काययोगं च बादरम् ।। ७४८ ॥ स सूक्ष्मे काययोगेऽथ स्थितिं कृत्वा पुनः क्षणम् । निग्रहं कुरुते सद्यः सूक्ष्मवाक्चित्तयोगयोः ॥ ७४९ ॥ ततः सूक्ष्मे वपुर्योगे स्थितिं कृत्वा क्षणं हि सः । सूक्ष्मक्रियं निजात्मानं चिद्रूपं चिन्तयेज्जिनः ॥ ७५० ॥ ध्यानध्येयादिसंकल्पैर्विहीनस्यापि योगिनः । विकल्पातीतभावेन प्रस्फुरत्यात्मभावना ॥ ७५१ ॥ अन्ते तद्धयानसामर्थ्यांद्वपुर्योगे स सूक्ष्मके । तिष्ठन्नास्पदं शीघ्रं योगातीतं समाश्रयेत् ॥ ७५२ ॥ इति त्रयोदशं सयोगिगुणस्थानम् । अथायोगिगुणस्थाने तिष्ठतोऽस्य जिनेशिनः । लघुपंचाक्षरोच्चारप्रमितावस्थितिर्भवेत् ॥ ७५३ ॥ तत्रानिवृत्तिशब्दान्तं समुच्छिन्नक्रियात्मकम् । चतुर्थं वर्तते ध्यानमयोगिपरमेष्ठिनः ॥ ७५४ ॥ समुच्छिन्नक्रिया यत्र सूक्ष्मयोगात्मिका यतः । समुच्छिन्नक्रियं प्रोक्तं तद्वारं मुक्तिसमनः ॥ ७५५ ॥ १ श्लोकोऽयं ख-पुस्तकाद्गतः । २ जिनात्मानं ख. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy