SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २२० श्रीवामदेवविरचितो कुम्भवत्कुम्भकं योगी श्वसनं नाभिपंकजे। कुम्भकध्यानयोगेन सुस्थिरं कुरुते क्षणम् ॥ ६९८ ।। निःसार्यते ततो यत्नान्नाभिपद्मोदराच्छनैः । योगिना योगसामर्थ्यानेचकाख्यः प्रभंजनः ॥ ६९९ ॥ इत्येवं गन्धवाहानामाकुंचनविनिर्गमौ । संसाध्य निश्चलं धत्ते चित्तमेकाग्रचिन्तने ॥ ७०० ॥ सवितर्क सवीचारं सपृथक्त्वमुदाहृतम् । त्रियोगयोगिनः साधोः शुक्लमाद्यं सुनिर्मलम् ॥ ७०१ ॥ श्रुतं चिंता वित्तर्कः स्याद्वीचारः संक्रमो मतः । पृथक्त्वं स्यादनेकत्वं भवत्येतत्त्रयात्मकम् ।। ७०२ ॥ तद्यथास्वशुद्धात्मानुभूत्यात्मभावानामवलंबनात् । अन्तर्जल्पो वितर्कः स्याद्यस्मिस्तत्सवितर्कजम् ॥ ७०३ ॥ अर्थादर्थान्तरे शब्दाच्छब्दान्तरे च संक्रमः। योगायोगान्तरे यत्र सवीचारं तदुच्यते ॥ ७०४ ॥ द्रव्याद् द्रव्यान्तरं याति गुणाद्गुणान्तरं व्रजेत् । पर्यायादन्यपर्यायं सपृथक्त्वं भवत्यतः ॥ ७०५ ॥ इति त्रयात्मकं ध्यानं ध्यायन योगी समाहितः । संप्राप्नोति परां शुद्धिं मुक्तिश्रीवनितासखीम् ।। ७०६ ॥ यद्यपि प्रतिपात्येतच्छुक्लध्यानं प्रजायते ॥ तथाप्यतिविशुद्धत्वादूस्पिदं समीहते ॥ ७०७॥ १ भावश्रुतावलम्बनात् ख. । २ जः क.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy