SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ श्रीवामदेवविरचितो तद्धयानयोगतो योगी परां शुद्धिं प्रगच्छति । प्रापयन्नुपशान्ताप्तिं वृत्तमोहं महारिपुम् || ६८० ॥ वृत्तमोहोदयं प्राप्य पुनः प्रच्यवते यतिः । अधः कृतमलं तोयं पुनम्लानं भवेद्यथा ।। ६८१ ॥ ऊर्ध्वमेकं च्युतौ वामं सप्तमं यान्ति देहिनः । इति त्रयमपूर्वाद्यास्त्रयो यान्त्युपशामकाः ।। ६८२ | उपशान्तकषायस्य न ह्यस्त्यूर्ध्वगुणाश्रयः । ततोऽसौ वामतां याति सप्तमं वा गुणास्पदम् || ६८३ ॥ उपशान्तगुणश्रेण्यां येषां मृत्युः प्रजायते । अहमिन्द्रा भवन्त्येते सर्वार्थसिद्धिसनि ।। ६८४ ॥ चतुर्वारं शमश्रेणि रोहत्याश्रयते यमम् । द्वात्रिंशद्वारमाक्षीणकर्माशा यान्ति निर्वृतिम् ॥ ६८५ ॥ औसंसारं चतुर्वारमेव स्याच्छमनोवला ? । जीवस्यैकभवे वारद्वयं सा यदि जायते ।। ६८६ ॥ २१८ उक्तं चान्यत्र ग्रन्थान्तरे— चत्तारि वारमुवसमसेढिं समरुहदि खविदकंमंसो । वत्तीसं वाराई सजम गहदि पुणो लहदि णिव्वाणं ॥ १ ॥ इत्युपशमश्रेणिगुणस्थानचतुष्टयम् । अतो वक्ष्ये समासेन क्षपकश्रेणिलक्षणम् । योगी कर्मक्षयं कर्तुं यामारुह्य प्रवर्तते ।। ६८७ ॥ १ गाः ख । २ श्लोकोऽयं नास्ति ख- पुस्तके । ३ प्राकृतपंचसंग्रहे तु " संजममुवलहिय णिव्वादि " इति पाठः । ४ इति ख- पुस्तके नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy