SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः। अप्रमत्तं गुणस्थानं संक्षेपेणेह वर्णितम् ।। अतो वक्ष्येऽष्टमं स्थानं श्रेणिद्वयसमाश्रितम् ॥ ६७० ॥ इति सप्तममप्रमत्तगुणस्थानम् । अतोऽपूर्वादिनामानि गुणस्थानान्युदीरयेत् । भवत्युपशमश्रेणी येभ्यश्च क्षपकावलिः ॥ ६७१ ॥ तत्रापूर्वगुणस्थानमपूर्वगुणसंभवात् । भावानामनिवृत्तित्वादनिवृत्तिगुणास्पदम् ॥ ६७२ ॥ अस्तित्वात्सूक्ष्मलोभस्य भवेत्सूक्ष्मकषायकम् । प्रशान्तरागयुक्तत्वादुपशान्तकपायकम् ॥ ६७३॥ तत्रापूर्वगुणस्थाने प्रथमांशे प्रजायते । बन्धविच्छेदनं सम्यनिद्राप्रचलयोर्द्वयोः ॥ ६७४ ।। आरोहति ततः श्रेणिमादिमामुपशामकः । सत्यायुष्युपशान्त्याप्तिं प्रापयेवृत्तमोहनम् ॥ ६७५ ॥ क्षपकः क्षपयत्युच्चैश्चारित्रमोहपर्वतम् । आरुह्य क्षपकश्रेणिमुपर्युपरि शुद्धितः ॥ ६७६ ॥ प्रभवत्युपशमश्रेण्यां भावो ह्युपशमात्मकः । चारित्रं तद्विधं ज्ञेयं वृत्तमोहोपशान्तितः ॥ ६७७ ॥ स्यादुपशमसम्यक्त्वं प्रशमाद् दृष्टिमोहतः । केषांचित् क्षायिकं प्रोक्तं दृष्टिनकर्मणः क्षयात् ॥ ६७८ ॥ तत्राद्यं शुक्लसद्धयानं स ध्यायत्युपशामकः । पूर्वज्ञः शुद्धिमान युक्तो ह्याद्यैः संहननैस्त्रिभिः ॥ ६७९॥ १ प्रथमभागे । २ गः ख. । ३ गः ख. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy