________________
Annnnnnnnnnnama
२१६
श्रीवामदेवविरचितोयथावद्वस्तुनो रूपं ध्येयं स्यात् संयमसतां ( मेशिनां)। एकाग्रचिन्तनं ध्यानं चतुर्भेदविराजितम् ॥ ६५९ ॥ पिण्डस्थं च पदस्थं च रूपस्थं रूपवर्जितम् । आयत्रयं तु सालम्बमन्त्यमालम्बनोज्झितम् ॥ ६६० ॥ पिण्डो देह इति तंत्र तत्रास्त्यात्मा चिदात्मकः । तस्य चिन्तामयं सद्भिः पिण्डस्थं ध्यानमीरितम् ॥ ६६१ ॥ पंचानां सद्गुरूणां यत् पदान्यालंब्य चिन्तनम् । पदस्थध्यानमाम्नातं ध्यानानिध्वस्तकल्मषैः ॥ ६६२ ॥ आत्मा देहस्थितो यद्वचिन्त्यते देहतो बहिः । तद् रुपस्थं स्मृतं ध्यानं भव्यराजीव भास्करैः ॥ ६६३ ॥ ध्यानत्रयेऽत्र सालंबे कृताभ्यासः पुनः पुनः । रूपातीतं निरालम्बं ध्यातुं प्रक्रमते यतिः ॥ ६६४ ॥ इन्द्रियाणि विलीयन्ते मनो यत्र लयं व्रजेत् । ध्यातृध्येयविकल्पे न तद्धयानं रूपवर्जितम् ॥ ६६५ ॥ अमूर्तमजमव्यक्तं निर्विकल्पं चिदात्मकम् । स्मरेद्यत्रात्मनात्मानं रूपातीतं च तद्विदुः ॥ ६६६॥ रूपातीतमिदं ध्यानं ध्यायन् योगी समाहितः । चराचरमिदं विश्वं क्षोभयत्यखिलं क्षणात् ॥ ६६७॥ सिद्धयोऽप्यणिमाद्याश्च सिद्धयन्ति स्वयमेव हि । मुक्तिस्त्रीवश्यतां याति योगिनस्तस्य निश्चितम् ॥ ६६८ ॥ इत्येतस्मिन् गुणस्थाने नो सन्त्यावश्यकानि षट् । संततध्यानसद्योगाद् बुद्धिः स्वाभाविकी यतः ॥ ६६९ ॥ १ 'इतिस्तत्रस्तत्रा' इति क-पुस्तके । ख-पुस्तके तु 'इतिस्तोत्रस्तत्रा' इति पाठः ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org