SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः । २१५ wwwwwwwwwww vwwwwwww आवश्यकान् परित्यज्य निश्चलं ध्यानमाश्रयेत् । नासौ वेत्त्यागमं जैन मिथ्यादृष्टिर्भवत्यतः ॥ ६४९ ॥ तस्मादावश्यकैः कुर्यात्प्राप्तदोषनिकृन्तनम् । यावन्नाप्नोति सद्धयानं निरालम्बं सुनिश्चलम् ॥ ६५० ॥ सम्यग्जिनागमं ज्ञात्वा प्रोक्ततद्धयानसाधनात् । क्षपकश्रेणिमारुह्य मुक्तेः सम प्रपद्यते ॥ ६५१ ॥ इति षष्ठं प्रमत्तगुणस्थानम् । अप्रमत्तगुणस्थानमतो वक्ष्ये समासतः । भवन्त्यत्र त्रयो भावाः षट्रस्थानोदिता यथा ॥ ६५२ ।। संज्वलनकषायाणां जाते मन्दोदये सति । भवेत् प्रमादहीनत्वादप्रमत्तो महाव्रती ॥ ६५३ ॥ नष्टशेषप्रमादात्मा व्रतशीलगुणान्वितः । ज्ञानध्यानपरो मौनी शमनक्षपणोन्मुखः ॥ ६५४ ॥ एकविंशतिभेदात्ममोहस्योपशमाय च । क्षपणाय करोत्येष सद्धयानसाधनं यमी ॥ ६५५ ॥ . मुख्यवृत्या भवत्यत्र धर्मध्यानं जिनोदितम् । तत्र तावद्भवेद् ध्याता ध्येयं ध्यानं फलं क्रमात् ॥ ६५६ ॥ आहारासननिद्राणां विजयो यस्य जायते । पंचानामिन्द्रियाणां च परीषहसहिष्णुता ॥ ६५७ ॥ गिरीन्द्र इव निष्कम्पो गम्भीरस्तोयराशिवत् । अशेषशास्त्रविद्वीरो ध्याताऽसौ कथ्यते बुधैः ।। ६५८ ॥ १ इति ख-पुस्तके नास्ति । २ षष्ठं क-पुस्तके नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy