SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ श्रीवामदेव विरचितो धर्मध्यानं तु सालम्वं चतुर्भेदैर्निगद्यते । आज्ञापायविपाकाव्य संस्थानविचयात्मभिः ।। ६३८ । स्वसिद्धान्तोक्तमार्गेण तत्वानां चिन्तनं यथा । आज्ञया जिननाथस्य तदाज्ञाविचयं मतम् ॥ ६३९ ।। अपायश्विन्त्यते वाढं यः शुभाशुभकर्मणाम् । अपायविचयं प्रोक्तं तद्ध्यानं ध्यानवेदिभिः ॥ ६४० ॥ संसारवर्तिजीवानां विपाकः कर्मणामयम् । दुर्लक्षचिन्त्यते यत्र विपाकविचयं हि तत् ।। ६४१ ॥ विचित्रं लोकसंस्थानं पदार्थैर्निचितं महत् । चिन्त्यते यत्र तद्ध्यानं संस्थानविचयं स्मृतम् ॥ ६४२ ।। अथवा जिनमुख्यानां पंचानां परमेष्ठिनाम् । पृथक पृथक तु यद्ध्यानं सालंबं तदपि स्मृतम् ॥ ६४३ ॥ सालम्बध्यानमित्येवं ज्ञात्वा ध्यायन्ति योगिनः । कर्मनिर्जरणं तेषां प्रभवत्यविलम्बितम् || ६४४ ॥ अस्तित्वान्नोकपायाणामार्तध्यानं प्रजायते । २१४ निराकरोति तद्वयानं स्वाध्याय भावनाबलात् ।। ६४५ ।। यावत्प्रमादसंयुक्तस्तावत्तस्य न तिष्ठति । धर्मध्यानं निरालम्बमित्यूचुर्जिन भास्कराः || ६४६ ॥ तस्मादार्येषणाद्यैस्तु पापदोषान्निकृन्तति । विशुद्धयावश्यकैः षड्भिः मुमुक्षुः स्वात्मशुद्धये ॥ ६४७ ॥ समता वन्दना स्तोत्रं प्रत्याख्यानं प्रतिक्रिया | व्युत्सर्गथेति कर्माणि भवन्त्यावश्यकानि षट् ॥ ३४८ ॥ १ दायें. ख. । २ प्राप्त. ख. । ३ त्रिशुद्धया. ख. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy