SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ २१० श्रीवामदेवविरचितो क्रियते गन्धपुष्पाद्यैर्गुरुपादाब्जपूजनम् । पादसंवाहनाद्यं च गुरूपास्तिर्भवत्यसौ ५९८ ॥ गुरूपास्ति: । चतुर्णामनुयोगानां जिनोक्तानां यथार्थतः । अध्यापनमधीतिर्वा स्वाध्यायः कथ्यते हि सः ।। ५९९ ।। स्वाध्यायः । प्राणिनां रक्षणं त्रेधा तथाक्षसराहतिः । एकोदेशमिति प्राहुः संयमं गृहमेधिनाम् || ६०० ॥ संयमम् । उपवासः सकृद्भुक्तिः सौवीराहार सेवनम् । इत्येवमाद्यमुद्दिष्टं साधुभिर्गृहिणां तपः ।। ६०१ ।। तपः । कर्माण्यावश्यकान्याहुः षडेवं गृहचारिणाम् । अधः कर्मादिसम्पातदोषविच्छित्तिहेतवे ।। ६०२ ॥ षट्कर्मभिः किमस्माकं पुण्यसाधनकारणैः । पुण्यात्प्रजायते बन्ध बंधात्संसारता यतः || ६०३ ॥ निजात्मानं निरालम्बध्यानयोगेन चिंत्यते । येनेह बन्धविच्छेदं कृत्वा मुक्ति प्रगम्यते ।। ६०४ ॥ वदन्ति गृहस्थानामस्ति ध्यानं निराश्रयम् । जैनागमं न जानन्ति दुर्धियस्ते स्ववंचकाः || ६०५ ।। १ आधाकर्मादिसंजात. ख. । २ निरालम्बं क. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy