SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः न जातु विद्यते येषां कृतदोषनिकृंतनम् । उत्पादोऽत्र भवेत्तेषां कषायवशगात्मनाम् ॥ ५८९ ॥ त्रिकलं— सूतकाशुचिदुर्भावव्याकुलादिम (त्व ) संयुताः । पात्रे दानं प्रकुर्वन्ति मूढा वा गर्विताशयाः ॥ ५९० ॥ पंचाग्निना तपोनिष्ठा मौनहीनं च भोजनम् । प्रीतिश्चान्यविवादेषु व्यसनेष्वतितीव्रता ॥ ५९१ ।। दानं च कुत्सिते पात्रे येषां प्रवर्तते सदा । तेषां प्रजायते जन्म क्षेत्रेष्वेतेषु निश्चितम् ॥ ५९२ ॥ उत्पद्यन्ते ततो मृत्वा भावनादिसुरत्रये । ● मन्दकपायसद्भावात् स्वभावार्जवभावतः ।। ५९३ ॥ मिथ्यात्वभावनायोगात्ततश्च्युत्वा भवार्णवे । वराकाः सम्पतन्त्येव जन्मनक्रकुलाकुले || ५९४ ॥ अपात्रे विहितं दानं यत्नेनापि चतुर्विधम् । व्यर्थीभवति तत्सर्वं भस्मन्याज्याहूतिर्यथा ।। ५९५ ।। अधौ निमज्जयत्याशु स्वमन्यानोपन्मयी | संसाराब्धावपात्रं तु तादृशं विद्धि सन्मते ! ।। ५९६ ॥ पात्रे दानं प्रकर्तव्यं ज्ञात्वैवं शुद्धदृष्टिभिः । यस्मात्सम्पद्यते सौख्यं दुर्लभं त्रिदशेशिनाम् ।। ५९७ ॥ दानम् । २०९ १ क- पुस्तके अस्मात् ५८९ श्लोकात्पूर्वं द्विकलमिति पाठः । ख - पुस्तके तु ५९० श्लोकात्पूर्वं त्रिकलमिति । २ वक्रतादिमसंयुताः ख- पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy