SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ २०६ श्रीवामदेवविरचितो अकृत्रिमेषु चैत्येषु कल्याणेषु च पंचसु । सुरैर्विनिर्मिता पूजा भवेत्सेन्द्रध्वजात्मिका ॥ ५५९ ॥ इन्द्रधजा। महोत्सवमिति प्रीत्या प्रपंचयति पंचधा । स स्यान्मुक्तिवर्धनेत्रप्रेमपात्रं पुमानिह ॥ ५६० ॥ पूजा। दानमाहारभैषज्यशास्त्राभयविकल्पतः । चतुर्धा तत्पृथक् त्रेधा विधापात्रसमाश्रयात् ॥ ५६१ ॥ एषणाशुद्धितो दानं त्रिधा पात्रे प्रदीयते । भवत्याहारदानं तत्सर्वदानेषु चोत्तमम् ॥ ५६२ ॥ आहारदानमेकं हि दीयते येन देहिना । सर्वाणि तेन दानानि भवन्ति विहितानि वै ॥ ५६३ ॥ नास्ति क्षुधासमो व्याधिर्भेषजं वास्य शान्तये । अन्नमेवेति मन्तव्यं तस्मात्तदेव भेषजम् ॥ ५६४ ।। विनाहारैर्बलं नास्ति जायते नो बलं विना । सच्छास्त्राध्ययनं तस्मात्तद्दानं स्यात्तदात्मकम् ॥ ५६५ ॥ . अभयं प्राणसंरक्षा बुभुक्षा प्राणहारिणी । क्षुन्निवारणमन्नं स्यादन्नमेवाभयं ततः ॥ ५६६ ॥ १ सुरेन्द्रनिर्मिता. ख. । २ तस्य. ख.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy