SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः । मोहसप्तकम् ॥ ३९६ ॥ वारणं तस्य चत्वारो ये चानन्तानुबन्धिनः । मिथ्यात्वमिश्रसम्यक्त्वं चेति इत्यासां प्रकृतीनां तु सप्तानामुपशान्तितः । प्रोक्तौपशमिका दृष्टिः प्रशान्तपंकतोयवत् ।। ३९७ ॥ सर्वनस्पर्धकानां यः पाकाभावात्मकः क्षयः । सत्तात्मोपशमो यत्र क्षायोपशमिकं हि तत् ॥ ३९८ ॥ उदितास्ते क्षयं याताः स्पर्धकाः सर्वघातकाः । शेषाः प्रशमिताः सन्ति क्षायोपशमिकं ततः ।। ३९९ ॥ यद्वेद्यते चलागाढमालिन्येन पृथक् पृथक् । सम्यक्त्वप्रकृतेः पाकात् तस्मात्तद्वेदका व्हयम् ।। ४०० ॥ एतत्संसारविच्छित्यै जायते देहिनां खलु । मौयादिदोषनिर्मुक्तं निःशंकाद्यङ्गसंयुतम् ॥ ४०१ ॥ सूर्या वन्हित्कारो गोमूत्रस्य निषेवणम् । तत्पृष्ठान्तनमस्कारो भृगुपातादिसाधनम् ।। ४०२ ।। देहलीगेहरत्नाश्वगजशस्त्रादि पूजनम् । नदीहदसमुद्रेषु मज्जनं पुण्यहेतवे ॥ ४०३ || संक्रान्तौ च तिलस्नानं दानं च ग्रहणादिषु । सन्ध्यायां मौनमित्यादि त्यज्यतां लोकमूढताम् ॥ ४०४ ॥ ऐहिकाशावशिवेन कुत्सितो देवतागण: । पूज्यते भक्तितो वाढं सा देवमूढता मता ।। ४०५ ॥ दृष्ट्वा मंत्रादिसामर्थ्यं पापिपाषण्डिचारिणाम् । उपास्तिः क्रियते तेषां सा स्यात्पापण्डिमूढता ॥ ४०६ ॥ Jain Education International १८९. For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy