SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः गुणपर्यवद्रव्यसन्दोहो वर्ण्यते बुधैः । सप्तभंगीं समालिंग्य स्वान्यद्रव्यस्वभावतः ॥ ३७३ ॥ सहभूता गुणा ज्ञेयाः सुवर्णे पीतता यथा । क्रमभूतास्तु पर्यायाः जीवे गत्यादयो यथा ॥ ३७४ ॥ पर्यायाः प्रभवन्त्येते भेदद्वयसमाश्रिताः । अर्थव्यञ्जनभेदाभ्यां वदन्तीति महर्षयः || ३७५ ॥ सूक्ष्मोsवाग्गोचरो वेद्यः केवलज्ञानिनां स्वयम् । प्रतिक्षणं विनाशी स्यात् पर्यायो ह्यार्थसंज्ञिकः ।। ३७६ ।। स्थूलः कालान्तरस्थायी सामान्यज्ञानगोचरः । टास्तु पर्याय भवेद्यञ्जनसंज्ञकः || ३७७ ॥ द्रव्याण्यनाद्यनन्तानि द्रव्यत्वेन भवन्त्यपि । धौव्यव्ययसमुत्पत्तिस्वभावान्यखिलान्यपि ३७८ ॥ कालत्रयानुयायित्वं यद्रूपं वस्तुनो भवेत् । तद्ध्रौव्यत्वमिति प्राहुर्वृषभाद्या गणाधिपाः || ३७९ ॥ पूर्वाकारान्यथाभावो विनाशो वस्तुनः पुनः । अपूर्वाकारसंप्राप्तिरुत्पत्तिरिति कीर्त्यते ॥ ३८० ॥ स्वभावेतरपर्याया जीवपुद्गलयोर्द्वयोः । विभावपर्यया न स्युः शेषद्रव्यचतुष्टये || ३८१ ॥ कार्यत्वमस्ति पंचानां प्रदेशततिसंभवात् । नास्ति कालस्य कायत्वं प्रदेशतत्यसंभवात् ।। ३८२ ॥ धर्माधर्मैकजीवानामसंख्येयप्रदेशता । पुद्गलानां त्रिधा देशा नभोऽनन्तप्रदेशकम् ॥ ३८३ || जीवाजीवास्रवा बन्धसंवरौ निर्जरा तथा । मोक्षश्चेति सुतत्वानि सप्त स्युर्जेन शासने || ३८४ ॥ Jain Education International For Private & Personal Use Only १८७ www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy