SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १८६ श्रीवामदेवविरचितो अधर्मः। द्रव्याणामवगाहस्य योग्यं यत्तन्नभो भवेत् । लोकाकाशमलोकाख्यमाकाशमिति तदद्विधा ॥ ३६५ ॥ आकाशः । वर्णगन्धादिभिर्मुक्ता असंख्याताः सुनिश्चलाः । वर्तनालक्षणोपेता जीवपुद्गलयोः परम् ॥ ३६६ ॥ तिष्ठन्त्येकैकरूपेण लोकाकाशप्रदेशकान् ।। व्याप्य कालाणवो मुख्याः प्रत्येकं रत्नराशिवत् ॥ ३६७॥ परिणामः पदार्थानां कालास्तित्वप्रसादकः । अन्यथा नवजीर्णादिपर्यायज्ञानता कथम् ।। ३६८ ॥ नोपचारो विना मुख्यं नरसिंहोपचारवत् । तथोपचारमाश्रित्य कालोऽस्ति व्यावहारिकः ॥ ३६९ ॥ मुख्यकालस्य पर्यायः समयादिस्वरूपवान् । व्यवहारो मतः कालः कालज्ञानप्रवेदिनाम् ॥ ३७० ॥ तं कालाणुं समुलंध्य मंदं गच्छति पुद्गलः । यावता कालमात्रेण स कालः समयात्मकः ॥ ३७१ ॥ तस्मादावलिपूर्वा ये मुहूर्ताद्याश्च पर्ययाः । मर्त्य क्षेत्रे प्रवर्तन्ते भानोर्गतिवशाद्भुवि ॥ ३७२ ॥ काल:। १-२-३ इमे शब्दाः क-पुस्तके न सन्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy