SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः । परमात्मा द्विधा सूत्रे सकलो निकलः स्मृतः । सकलो भण्यते सद्भिः केवली जिनसत्तमः ॥ ३५६ ॥ निष्कलो मुक्तिकान्तेशश्चिदानन्दैकलक्षणः । अनंतसुखसंतृप्तः कर्माष्टकविवर्जितः ॥ ३५७ ॥ जीवः । वर्णमेकं रसं गन्धं स्पर्शयुग्मं च गाहते । पुद्गलाणुः परः प्रोक्तो गलनपूरणात्मकः ॥ ३५८ ॥ ब्यणुकादिविभेदेन स्निग्धरूक्षत्वसंश्रयात् । बन्धोऽन्योन्यं भवेत्तेषां वृद्धिरूपादनेकधा ॥३५९ ॥ शब्दो बन्धस्तमश्छाया मूक्ष्मस्थौल्यातपद्युति । भेदसंस्थानमित्येते पर्यायास्तस्य कीर्तिताः ॥ ३६० ॥ पृथ्वी तोयं तथा च्छाया चाक्षुषो नाक्षगोचरः । कर्माणि परमाण्वन्तं तेषां सौम्यं यथोत्तरम् ॥ ३६१ ।। स्थूलस्थूलं तथा स्थूलं स्थूलसूक्ष्मास्ततः परम् । सूक्ष्मस्थूलाश्च सूक्ष्माणि सूक्ष्मसूक्ष्मा इति क्रमात् ॥ ३६२॥ पुद्गलः । गतिहेतुर्भवेद्धर्मो जीवपुद्गलयोर्द्वयोः । यथोदकं हि मत्स्यानां सन्तिष्ठतोस्तथा न सः ॥३६३ ॥ धर्मः । अधर्मः स्थितिदानाय हेतुर्भवति तद्वयोः। पथिकानां यथा च्छाया गच्छतोः स न धारकः ॥६६४॥ १ अयं पाठः क-पुस्तके नास्ति । २ सूक्ष्मो. ख. । - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy