________________
भावसंग्रहः ।
एवमाज्ञाभवो भावः प्ररूपितः समासतः । अतोऽधिगमभावस्य लक्षणं कथ्यते यथा ॥ ३३५॥ निश्चीयते पदार्थानां लक्षणं नयभेदतः।। सोऽधिगमोऽभिमन्तव्यः सम्यग्ज्ञानविलोचनैः ।। ३३६ ॥ द्रव्याणि षट्रप्रकाराणि जीवोऽथ पुद्गलस्तथा । धर्माधर्मनभःकाला अतस्तेषां प्ररूपणम् ॥ ३३७ ॥ जीवो हि सोपयोगात्मा कर्ता भोक्ता तनुप्रमः । स्वभावेनोवंगोऽमूर्तः संसारी सिद्धिनायकः ॥३३८ ।। जीवितो दशभिः प्राणैर्जीविष्यति च जीवति। स जीवः कथ्यते सद्भिर्जीवतत्वविदां वरैः ॥३३९ ॥ जन्तो वो हि वस्त्वर्थ उपयोगः स च द्विधा । साकारोऽनिराकारो ज्ञानदर्शनभेदतः ॥ ३४०॥ उपयोगो हि साकारो ज्ञानलक्षणलक्षितः। स चाष्टधा भवेन्मिथ्यासम्यग्ज्ञानप्रभेदतः ॥ ३४१॥ कुमतिः कुश्रुतज्ञानं विभङ्गाख्योऽवधिस्तथा। अज्ञानत्रितयं चेति मिथ्याकर्मफलोद्भवम् ॥ ३४२ ॥ मतिः श्रुतावधी स्वान्तः केवलं चेति पंचधाः। सम्यग्ज्ञानं भवेत्तस्य वर्तनं स्वार्थगोचरम् ॥ ३४३ ॥ स्यादर्शनोपयोगस्तु चतुर्भेदमुपागतः। निराकारो हि तस्यास्ति स्थितिरान्तर्मुहर्तिकी ॥३४४॥
१ समाहितः ख.। २ नव. ख.। ३ अस्मादग्रे ज्ञानोपयोगः साकारः, दर्शनोपयोगोऽनाकारः स चोपयोगलक्षणः पुस्तकद्वयेऽप्य पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org