SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः १८१ न ह्येवं सुप्रसिद्धोऽस्ति भावान्तरसमुद्भवः । सर्वशास्त्रेषु सर्वत्र बालगोपालसम्मतः ॥३१५॥ जात्यन्तरसमुद्भूतिर्वडवाखरयोर्यथा । गुडदध्नोः समायोगे रसान्तरं यथा भवेत् ॥ ३१६॥ तथा धर्मद्वये श्रद्धा जायते समबुद्धितः । मिश्रोऽसौ भण्यते तस्माद्भावो जात्यन्तरात्मकः ॥ ३१७ ॥ सकलाणुव्रते न स्तो नायुर्वन्धो भवेत्कचित् । मारणान्तं समुद्धातं न कुर्यान्मिश्रभावतः ॥ ३१८ ॥ मृत्युं न लभते जीवो मिश्रभावं समाश्रितः । सदृष्टिामदृष्टिवो भूत्वा मरणमश्नुते ॥ २१९ ॥ सम्यग्मिथ्यात्वयोर्मध्ये येनायुरर्जितं पुरा । म्रियते तेन भावेन गतिं योन्ति तदाश्रिताम् ॥ ३२० ॥ मिश्रभावमिमं त्यक्त्वा सम्यक्त्वं भज सन्मते ! । मुक्तिकान्तासुखावाप्त्यै यद्यस्ति विपुला मतिः ॥ ३२१ ॥ इति तृतीयं मिश्रगुणस्थानम् । असंयतगुणस्थानमतो वक्ष्ये चतुर्थकम् । सोपानमादिमं मोक्षप्रासादमधिरोहताम् ॥ ३२२ ॥ तत्रौपशमिको भावः क्षायोपशमिकाव्हयः । क्षायिकश्चेति विद्यन्ते त्रयो भावा जिनोदिताः ।। ३२३ ॥ १ याति । २ अयं पाठः क-पुस्तके ३२२ श्लोकादुत्तरं। ‘मिश्रगुणस्थानं तृतीयं' इत्येवं रूपः ख-पुस्तके पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy