SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १८० श्रीवामदेवविरचितो अथ मिश्रगुणस्थानं प्रकथ्यते यथागमम् । क्षायोपशमिको भावो मुख्यत्वेनेह जायते ।। ३०४ ॥ मिश्रकर्मोदयाज्जीवे पर्यायः सर्वघातिजः । न सम्यक्त्वं न मिथ्यात्वं भावोऽसौ मिश्र उच्यते ॥ ३०५ ॥ अहिंसालक्षणो धर्मो यज्ञादिलक्षणोऽथवा । मन्यते समभावेन मिश्रकर्मविपाकतः ॥ ३०६ ॥ जिनोक्तिं मन्यते यद्वदन्योक्तिं मन्यते तथा । देवे दोषोज्झिते भक्तिस्तथैव दोषसंयुते ॥ ३०७ ॥ निग्रन्था यतयो वन्द्यास्तथैव द्विजतापसाः । यत्रैषा जायते बुद्धिर्मिश्रं स्यात्तद्गुणास्पदम् || ३०८ ।। गोदुग्धे चार्कदुग्धे वा समताविलबुद्धयः । हेयोपादेयतत्वेषु यथैते विकलाशयाः ॥ ३०९ ॥ जैनभाव वदन्त्येवं ममैताः कुलदेवताः । चंडिकाराममाताद्या महालक्ष्मीर्महालयाः ॥ ३१० ॥ अर्चन्ति परया भक्त्या प्रनृत्यन्ति तदग्रतः । ऐहिकाशामहामोहव्याकुलीकृतचेतसः || ३११ ॥ मोहार्त्तः कुरुते श्राद्धं पितॄणां तृप्तिहेतवे । अजानन् जीवसद्भाव गतिस्थित्यादिवर्तनम् ।। ३१२ ॥ इत्येतद्वर्तनं सर्वं मिश्रभावसमाश्रितम् । येषां ते मिश्रभावाढ्या भ्रमन्ति भवपद्धतौ ॥ ३१३ ॥ सम्यग्मिथ्यात्वयोर्मध्ये यदेकतरभावना | तया स्यात्तस्य तन्नाम मिश्रं स्थानं ततो न हि ॥ ३१४ ॥ १ भक्ति, ख । २ जैनभावो वदत्येवं ख. । ३ महामोहव्या. ख. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy