SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ श्रीवामदेवविरचितो उत्कृष्टसंयमं मुक्त्वा शुक्लध्याने न योग्यता | नो मुक्तिस्तद्विना तस्मात्तासां मोक्षोऽति दूरगः ॥ २४७ ॥ सप्तमं नरकं गन्तुं शक्तिर्यासां न विद्यते । आद्यसंहननाभावान्मुक्तिस्तासां कुतस्तनी ॥ २४८ ॥! योषित्स्वरूपतीर्थेशां तल्लिंगस्तनभूषिताः । अर्चाः प्रतिष्ठिताः कापि विद्यन्ते चेत्प्रकथ्यताम् ॥ २४९ ॥ न सन्ति चेन्ताभावः सन्ति चेद्भण्डिमास्पदम् । एवं दोषद्वयासंगान्मोक्षो न घटते स्त्रियः ॥ २५० ॥ कुलीनः संयमी धीरो निःसंगो विजितेन्द्रियः । संप्राप्नोति पुमानेव मुक्तिकान्तासमागमम् ।। २५१ ॥ इति स्त्रीमोक्षनिराकरणम् । १७४ मुक्त्वा निर्ग्रन्थसन्मार्ग मोक्षैकसाधनं नृणाम् । सग्रन्थत्वेन मोक्षोऽस्ति प्रवदन्तीति दुर्द्धियः || २५२ ।। ग्रन्थत्वेन मोक्षस्य यद्यस्ति साधनं परम् । आदीश्वरेण साम्राज्यं राज्यं त्यक्तं कथं वद ।। २५३ ।। आद्यसंहननोपेतः कुलजोऽपि न सिद्ध्यति । विना निर्ग्रन्थलिंगेन नरः सर्वांगसुन्दरः ।। २५४ ॥ न ह्येवं चीवरं दण्डं भिक्षापात्रादिसंयुतम् । इत्युपकरणं साधु गृह्यते मोक्षकाम्यया ।। २५५ ॥ १-२४७ तमश्लोकस्योत्तरार्द्ध २४८ तम श्लोकस्य पूर्वार्धं ख- पुस्तकाद्भुतं । २ मुक्त्वा निर्ग्रन्थसन्मार्ग इत्यादि श्लोकादुत्तरं 'स्त्रीनिर्वाणनिराकरणं ।' इति पाठः क - पुस्तके | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy