SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ mern भावसंग्रहः। १७३ अन्तरायान् विना तस्य प्रवृत्तिभॊजने यदि। श्रावकेभ्योऽतिनीचत्वं निन्दास्पदं प्रजायते ॥ २३७ ।। करोति चान्तरायांश्च दृष्टे चायोग्यवस्तुनि । तदा सर्वज्ञभावस्य दत्तस्तेन जलाञ्जलिः ॥ २३८ ॥ तथापि कवलाहारं ये वदन्ति जिनेशिनः । सुरास्वादमदोन्मत्ता जल्पन्ति घूर्णिता इव ॥ २३९ ॥ इति केवलिभुक्तिनिराकरणम् । अथ स्त्रीणां भवे तस्मिन् मोक्षोऽस्तीति वदन्ति ये । ते भवन्ति महामोहग्रहग्रस्ता जना इव ॥ २४०॥ यद्यपि कुरुते नारी तपोऽप्यत्यन्तदुःसहम् । तथापि तद्भवे तस्या मोक्षो दूरतरो हि सः ॥ २४१॥ तस्या जीवो न किं जीवो जीवमात्रोऽथवा स्मृतः । मोक्षा वाप्तिनं जायेत नारीणां केन हेतुना ॥ २४२ ॥ जीवसामान्यतो मुक्तिर्यद्यस्ति चेत्प्रजायताम् । मातंगिन्याद्यशेषाणां नारीणामविशेषतः ॥ २४३॥ सदैवाशुद्धता योनौ गलन्मलाश्रयत्वतः । रजःस्खलनमेतासां मासं प्रति प्रजायते ॥ २४४ ॥ उत्पद्यन्ते सदा स्त्रीणां योनौ कक्षादिसन्धिषु । सूक्ष्मापयोप्तका मत्यास्तदेहस्य स्वभावतः ॥ २४५॥ स्वभावः कुत्सितस्तासां लिंग चात्यन्तकुत्सितम् । तस्मान्न प्राप्यते साक्षाद्वेधा संयमभावना ॥ २४६ ॥ १ इति ख-पुस्तके नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy