SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः । लिक्षायूकाश्रयस्थानं वस्त्रादीनां परिग्रहः । तस्यादानविनिक्षेपात् क्षालनादङ्गिनां वधः ॥ २५६॥ वस्त्रयाचनया दैन्यं प्राप्तौ व्यामोहता भवेत् । तस्मात्संयमहानिः स्थानिर्मलत्वं च दूरगम् ॥ २५७ ॥ ततोऽन्तर्बाह्यभेदाभ्यां ग्रन्थाभ्यां परिवर्जितम् । जिनेन्द्रकथितं लिंगं सम्यक्त्वं तस्य भावना ॥ २५८ ॥ ससम्यक्त्वस्य जीवस्य चारित्रं मोक्षसाधकम् । तस्मान्नैर्ग्रन्थ्यतायुक्तं जिनलिंगं प्रशस्यते ॥ २५९ ॥ संयमोऽयं हि दुःसाध्यो जिनकल्पात्मिकोऽधुना। ततः स्थविरकल्पस्य वृत्तमस्माभिराश्रितम् ॥ २६० ॥ जिनकल्पोऽस्ति दुःसाध्यः सर्वसंगपरिच्युतः। तस्मात्त्वयैव नैर्ग्रन्थ्यं प्रमाणीकृतमञ्जसा ॥ २६१ ॥ नैवं परिग्रहाः सन्ति कल्पे स्थविरसंज्ञके । तस्याश्रयेऽपि तद्वाक्यं त्वयैव विफलीकृतम् ॥ २६२ ॥ अथैतन्कथ्यते वृत्तं जिनकल्पाभिधानकम् । २त्रामा Sक्तवधूसंगो भव्यानां जायते ध्रुवम् ॥ २६३ ॥ त्वसंयुक्ता विजिताक्षकषायकाः । "दशाङ्गं ये जानन्त्येकाक्षरं यथा ॥२६४ ॥ चत कण्टकं लग्नं नेत्रयो रजसंगमे । स्वयं नापनयन्त्यन्यैः स्फेटिते मौनधारणम् ॥ २६५ ।। आद्यसंहननोपेताः संततं मौनधारिणः । गुहायां पर्वतेऽरण्ये वसन्ति निम्नगातटे ॥ २६६ ॥ आयत्या १ वस्त्रादिपरिग्रहस्य । २ भग्नं. ख. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy