________________
भावसंग्रहः
बुभुक्षा भोक्तुमिच्छा स्यादिच्छापि मोहजा स्मृता । तत्क्षये वीतरागस्य भोजनात् स्यात्सदोषता ॥ २१७ ।। तद्यथाअक्षार्थेषु विरक्तस्य गुप्तित्रयोपसंयुजः। साधोः सम्पद्यते ध्यानं निश्चलं कर्मणां रिपुः ।। २१८ ॥ ध्यानात्समरसीभावस्तस्मात्स्वात्मन्यवस्थितिः । ततस्तु कुरुते नूनं निःशेष मोहसंक्षयम् ॥ २१९ ॥ भूत्वाथ क्षीणमोहात्मा शुक्लध्याने द्वितीयके । स्थित्वा घातिक्षयं कृत्वा केवली प्रभवत्यसौ ॥ २२० ॥ दशाष्टदोषनिर्मुक्तो लोकालोकप्रकाशकः । अनन्तसुखसंतृप्तः कथं भुनक्ति केवली ॥ २२१ ॥ सन्ति क्षुधादयो दोषाः कियन्तश्चेजिनेशिनः । निदोषो वीतरागोऽसौ परमात्मा कथं भवेत् ।। २२२ ॥ अथौदासीन्ययुक्तानां साधूनां भोजनादिकम् । कुर्वतां वीतरागत्वं सर्वेषां सम्मतं सताम् ।। २२३ ॥ मिथ्यात्वज्वरसम्पन्नतीव्रदाघवतामयम् । प्रलापस्तूपचारेण वीतरागा ह्यमी यतः ।। २२४ ।। विनाहारं न च कापि दृश्यतेऽत्र तनुस्थितिः। तस्मात्केवलिभिनूनमाहारो गृह्यते सदा ॥ २२५॥ नोकर्मकर्मनामा च लेपाहारोऽथ मानसः । ओजश्च कवलाहारश्चेत्याहारो हि षडिधः ॥ २२६ ॥
१ भोजनं ख. । २ संयुत्तः ख. । ३ तृतीयके ख. । ४ घातित्रयं हत्वा ख. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org