________________
१७०
श्रीवामदेवविरचितो
भीतेन तस्य शान्त्यर्थं काष्ठमष्टांगुलायतम् ।
चतुरस्रं च स एवायमिति संकल्प्य पूजितः ।। २०६ ।। श्वेताम्बरैः परिस्थाप्य समर्चितो यथाविधि ।
:
ततस्तेन परित्यक्तं चेष्टितं विक्रियात्मकम् ॥ २०७॥ समभूत कुलदेवोऽसौ पर्युपासनसंज्ञकः । अद्यापि जलगन्धाद्यैः प्रपूज्यते ऽतिभक्तितः ॥ २०८ ॥ अन्तरे श्वेतद्वत्रं धृत्वा तस्यार्चनं कृतम् | तस्मादभूदिदं लोके श्वेताम्बरमताभिधम् ॥ २०९ ॥ समुत्पन्नेऽपि कैवल्ये भुनक्ति केवली जिनः । नारीणां तद्भवे मोक्ष: साधूनां ग्रन्थसंयुजाम् || २१० ॥ fei शास्त्रसंदोहं विपरीतं जिनोक्तितः । संविधाय वदत्येष गुरुद्रोही निरंकुशः || २११ ॥ यस्यानन्तसुखं तस्य नास्त्याहारप्रसंगता | यद्यत्यनन्तसौख्यानां व्याघातो जायते ध्रुवम् ॥ २१२ ॥ नास्ति क्षुधां विनाहारः क्षुन्मुख्या दोषसंहतिः । इति हेतोर्जिनेन्द्रस्य सदोषत्वं प्रसज्यते ।। २१३ ॥ वेदनीयस्य सद्भावे बुभुक्षाद्यं प्रजायते । तस्मात्केवलिनां भुक्तिर्न भवेदोषकारिणी ।। २१४ ॥ दग्धरज्जुसमं वेद्यं स्वशक्तिपरिवर्जितम् । असमर्थ स्वकार्यस्य कर्तृत्वे क्षीणमोहिनि ॥ २१५॥ मोहमूलं भवेद्वेद्यं मोहविच्छेदमीयुषि । तद्धेतोर्निष्फलं वेद्यं छिन्नमूलतरुर्यथा ।। २१६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org