________________
भावसंग्रहः
गृहीत्वा चीवरं दण्डं भिक्षापात्रं च कंवलम् । भिक्षाशनं समानीय स्वावासे भुज्यते सदा । १९५ ।। कियत्काले गतेऽप्येवं जाता सुभिक्षता ततः । भणितं संघमाहूय शान्तिना गणधारिणा ।। १९६॥ त्यजध्वं कुत्सिताचारं भजध्वं शुद्धसदृशम् | कुरुध्वं गर्हणं निन्दां गृहीध्वं सद्रतं पुनः ॥ १९७ ॥ आकयेत्यग्रजः शिष्यो जिनचन्द्रो ब्रवीदिदम् । नो शक्यतेऽधुना धर्तुं जिनैराचरितं व्रतम् ।। १९८ ॥ ब्रह्मचर्यमचेलत्वं नम्रत्वं स्थितिभोजनम् ।
भूतले शयनं मौनं द्विमासं केशलुञ्चनम् ॥ १९९ ॥ एकस्थानमलाभत्वं सर्वाङ्गमलधारणम् ।
असह्यान्यन्तरायाणि भिक्षानियतकालिकी ॥ २०० ॥ न शक्या मनसा सोढुं द्वाविंशतिपरीषदाः । इत्याद्यनेकधा दुःखमधुना केन सह्यते ॥ २०९ ॥ इदानींतनमाचारं सुखसाध्यं न शक्यते । तत्परित्यक्तुमस्माभिस्तस्मान्मौनं भजस्व हि ॥ २०२ ॥ ततोऽभाणि गणी नैवं सुन्दरं यत्त्वयोदितम् । स्वोदरपूर्तये हेतुर्नो हेतुर्मोक्षसाधने ॥ २०३ ॥ तद्रोषात्पापिना मूर्ध्नि हत्वा दण्डेन मारितः । मृत्वा चैत्यगृहे तस्मिन्नाचार्यो व्यंतरोऽभवत् ॥ २०४ ॥ ततः शिष्यमुख्यं यावत्स्वयं भूत्वा गणाग्रणीः । तावत्शिक्षां पुनर्दातुं प्रारेभे व्यन्तरामरः || २०५ ।।
१ स्वावासं ख. । २ राचरितं ख. |
Jain Education International
१६९
For Private & Personal Use Only
www.jainelibrary.org