________________
भावसंग्रहः
ज्ञाता दृष्टा पदार्थानां त्रैलोक्योदरवर्तिनाम् । तस्याज्ञानस्वभावत्वं ब्रूते सांख्यो निरीश्वरः ॥ १७४ ।। तस्य मतानुसारित्वमङ्गीकृत्य प्रकल्पितम् । मस्करीपूरणेनेह वीरनाथस्य संसदि ।। १७५ ॥ जिनेन्द्रस्य ध्वनिग्राहिभाजनाभावतस्ततः । शक्रेणात्र समानीतो ब्राह्मणो गौतमाभिधः ॥ १७६ ॥ सद्यः सदीक्षितस्तत्र स ध्वनेः पात्रतां ययौ । ततो देवसभां त्यक्त्वा निर्ययौ मस्करी मुनिः ।। १७७ ।। सन्त्यस्मदादयोऽप्यत्र मुनयः श्रुतधारिणः । तांस्त्यक्त्वा स ध्वनेः पात्रमज्ञानी गौतमोऽभवत् ॥१७८।। संचिंत्यैवं क्रुधा तेन दुर्विदग्धेन जल्पितम् । मिथ्यात्वकर्मणः पाकादज्ञानत्वं हि देहिनाम् ॥ १७९ ॥ हेयोपादेयविज्ञानं देहिनां नास्ति जातुचित् । तस्मादज्ञानतो मोक्ष इति शास्त्रस्य निश्चयः ॥ १८० ॥ यत्कालान्तरितं वस्तु दृष्टपूर्वमनेकधा । यद्यज्ञानी कथं तस्य चेतृत्वं दृश्यतेऽङ्गिनः ॥ १८१ ॥ अयं बन्धुः पिता सुनुर्मातेयं भगिनी प्रिया । एषां पृथक्रिया तस्य ज्ञानहीनस्य दुर्घटा ।। १८२ ॥ पंचाक्षविषयाः सर्वैः सेव्यन्ते स्वेच्छया कथम् । पाषणस्तंभवत्तस्य न काचित् कर्तृता मता ॥ १८३ ॥ ज्ञानं विना न चारित्रं तद्विना ध्यानसाधनम् । ध्यानं विना कथं मोक्षस्तस्माज्ज्ञानं सतां मतम् ॥ १८४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org