SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १६६ १६६ ॥ यो न वेत्ति परं स्वं च शुद्धाशुद्धस्वभावकम् । कथं तेनाप्यते मोक्षः सर्वेषां विनयादिह ॥ १६३ ॥ विनयो यदि सर्वेषां योग्यायोग्यक्रमादृते । किं न बन्द्याः खराद्याश्च मातङ्गाद्याः शिवाप्तये ॥ १६४ ॥ वन्दना क्रियते मूढैः पुत्रभार्याभिवाञ्छया । यक्षाद्यखिलदेवानां तुच्छानां कुत्सितात्मनाम् ।। १६५ ।। भुक्तिमात्रप्रदानेन स्वस्मै तृप्त्यभिलाषिणाम् । तेषां कौतकुती शक्तिर्वाञ्छितार्थप्रदायिनी ॥ पूर्वभावार्जिता वाप्तिर्जायते सुखदुःखयोः । देहिनां किं प्रकुर्वन्ति यक्षाद्याः देवताधमाः ॥ १६७ ॥ शैवाचार्या वदन्त्येके काले कल्पशते गते । मुक्तिं गतेषु जीवेषु लोकः शून्यो भवेदिति ।। १६८ ।। मुक्तिं गता पुनर्जीवः पतन्तीश्वरचिन्तया । चतुर्गत्यात्मके भीमे संसारे दुःखसंकुले ।। १६९ ॥ वन्हिः काष्ठसमुद्भुतः पुनः काष्ठं भवेद्यदि । तदा मुक्तिं गता जीवाः पुनः प्रयान्ति संसृतिम् ॥ १७० ॥ यस्य प्रयत्नमन्येषां पातनाय शिवात्मनाम् । परस्परविरुद्धत्वात् स शिवो वंद्यते कथम् ॥ १७१ ॥ कल्याणं परमं सौख्यं निर्वाणपदमच्युतम् । साधितं येन देवेन स शिवः स्तूयते बुधैः ॥ १७२ ॥ एवं वैनयिकं नाम मिथ्यात्वं दुर्गतेः पदम् । तमुत्सृज्य समाराध्यं शिवं रत्नत्रयात्मकम् ॥ १७३ ॥ इति विनयमिध्यात्वम् । १ कौतम्तनी. ख. । २ पूर्वभवार्जिता. ख. । ३ निर्वाणं परमं पदं । ४ श्रूयते । श्रीवामदेवविरचितो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy