SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः। अचेतनानि भूतानि नोपादानानि चेतने । मिथ्येति गोमयादिभ्यो वृश्चिकाद्युपदर्शनात् ।। १५३ ॥ स्वसंवेदनवेद्यत्वात् सुखदुःखादिवर्धवम् । जीवसिद्धि कथं नैते मन्यन्ते दुष्टवादिनः ॥ १५४ ।। तावत्संवर्धते देहो यावज्जीवोपतिष्ठते । तस्याभावे न सा वृद्धिदेहो विलयमाप्नुयात् ।। १५५ ॥ पंचभूतात्मिके देहे देहिना वर्जिते न हि । संभूतिर्गमनादीनां प्रत्यक्षे भूतसंचये ॥ १५६ ॥ मृत्वायमभवद्रक्षो बन्धुवा जनको परः । नासत्यं जातु संभूयात् प्रसिद्धमिति सर्वतः ॥ १५७ ॥ जात्यनुस्मरणाजीवो गतागतविनिश्चयात् । पृथक्करणसादृश्याज्जीवोस्तीति विनिश्चयः ॥ १५८ ॥ नास्ति जीव इति व्यक्तं यद्वदन्तीह दुर्धियः । तन्मिथ्यात्वं परित्याज्यं सम्यक्त्वभावनाबलात् ।। १५९ ॥ इति नास्तिकवादनिराकरणम् । तापसाः प्रवदंत्येवं सर्वे जीवाः शिवात्मकाः। ततस्तेषां प्रकुर्वीत विनयो मोक्षसाधकः ॥ १६० ॥ यद्यगिनः शिवात्मानो वन्दकः किन्न तद्विधः । तस्मात्कः केन वन्द्यः स्याद्वयोः साम्यं शिवत्वयोः।।१६१॥ कर्मोपाधिविनिर्मुक्तं तद्रूपं शैवमुच्यते । यत्कर्मस्तोमसंयुक्तमशुद्धात्मकमित्यतः ॥ १६२ ॥ १ अस्मात्पूर्व पर इति पाठः । २ जीवगतागत. ख.। ३ पृथक् पृथक् सादृश्यात् । ४ नास्तिकवादनिवारणं. ख. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy