SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १६४ श्री वामदेवविरचितो 1 अन्ये धीवर शौण्डाद्याः सूनकारादयो जनाः । मुक्तिभाजो भवन्त्येते यदि तथ्येशी श्रुतिः ॥ १४३ ॥ जीवो नित्यस्तु पर्याया अनित्यास्तु तदाश्रयात् अनित्यत्वं हि जीवस्य कथंचिददृष्टमर्हता ॥ १४४ ॥ अतस्ततत्क्षणिकैकान्तमिथ्यात्वस्यापसारणम् । कृत्वा सम्यक्त्वहेतूनां प्रयत्नं क्रियतामिति ।। १४५ ।। इति नित्यक्षणिकैकान्तमिथ्यात्वम् । सत्तावबोध चैतन्यलक्षणो यः सनातनः । तस्याभावं वदत्येवं चार्वाको मानवर्जितः ॥ १४६ ॥ अचेतनानि भूतानि जीवः स्याच्चेतनात्मकः । कथं भवेद्विजातिभ्यः सचेतनस्य संभवः ॥ १४७ ॥ भूतयोगात्मिका शक्तिश्चैतन्यमभिधीयते । पिष्टोदकगुडादिभ्यो मदशक्तिर्यथा भवेत् ।। १४८ ॥ गर्भादिर्मेरणपर्यन्तं तस्यावस्थानसंभवः । ततो नास्त्यन्यजीवत्वं विना तेनान्यलोकता ॥ १४९ ॥ मुक्त्वेह लौकिकं सौख्यं व्रतैः क्लिश्यन्त्यहर्निशम् | हाँ ! वंचितास्त एवास्मिन्नाशापाशवशीकृताः ।। १५० ।। अक्षसौख्याय संसेव्या भग्नी माता गुरुस्त्रियः । मद्याद्यं च न दोषोऽत्र जीवस्याभावतः स्फुटम् ॥ १५१ ॥ इत्येवं निगदन् दुष्टचार्वाकः किन्न विन्दति । सद्यः खण्डीकतां जिव्हां प्रत्यक्षं चासिधारया ।। १५२ ।। १ मतस्य ह्यपसाररणं. ख. २ इतेि. ख- पुस्तके नास्ति । ३ अस्मादग्रे परः इति ख- पाठः, तस्यार्थः पर आहेति । ४ मृत्यु. ख. । ५ हि. ख. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy