________________
१६२
श्रीवामदेवविरचितो
भस्मसात्कुरुते रुद्रस्त्रैलोक्यं स्वल्पचिन्तया । तदा संवसति वासौ गंगागौरीसमन्वितः ।। १२२ ।। दहत्येकतरं ग्रामं स पापी भण्यते जनैः । यो विश्वं निर्दहेत् सर्वं स कथं याति पूज्यताम् ।। १२३ ॥ अनन्यसंभवीशक्तियुक्तस्य प्रथिवीपतेः ।
पापं न विद्यते यस्मात्पापहन्ता स एव हि ॥ १२४ ॥ शम्भोर्न विद्यते पापं चेत्कथं भ्रमते भुवि । प्रतितीर्थं करालग्नब्रह्मशीर्षस्य हानये ॥ १२५ ॥ भ्रमन्प्राप्तः पलाशाख्यं ग्रामं यावत्कपालभृत् । वत्सेन तत्र शृंगाभ्यां विदार्य मारितो द्विजः ॥ १२६ ॥ तत्पाप्रात् स्वतनुं कृष्णं दृष्ट्वा सोऽथ विनिर्ययौ । निजमातरमापृच्छ्च तत्पापोच्छेदनेच्छया ।। १२७ ॥ गतोऽनुमार्गतस्तस्य वृषभस्य महेश्वरः । गांग -हदं प्रविष्टौ द्वौ त्यक्तपापौ बभूवतुः || १२८ ।। वृषभस्योपदेशेन गंगातोयावगाहनात् । जातस्त्यक्तकपालोऽपि कपालीत्युच्यते जनैः ।। १२९ ॥ यदि यः स्वकृतं पापं निर्नाशयितुमक्षमः । सोऽन्येषां कल्मषापाये स्वामी स्यादिति कौतुकम् ॥ १३० ॥ serपुराणसंदोहं श्रुत्वा युक्तिविवर्जितम् । विभ्रमन्ति जनाः स्वैरं संसारगहने वने ॥ १३१ ॥ महास्कन्धस्य लोकस्य कर्ता हर्ता च रक्षकः । न कोsपि विद्यते तस्माद्विपरीतमिदं वचः ॥
१३२ ॥
१ तावत् ख. । २ तौ. ख. । ३ यादे स्वयं कृतं ख. । ४ बंभ्रमन्ति ख ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org