SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः। समुत्पादोऽखिलार्थानां मानसो हि प्रजायते । न ह्यदृष्टपदार्थानां घटना कापि दृश्यते ॥ १११ ॥ यदि वैक्रियिकं विश्वं विद्याशक्त्या विनिर्मितम् । अवस्तुभूतसम्बन्धान भवेत्तच्चिरन्तनम् ॥ ११२ ॥ एवं सुवर्णगर्भस्य कर्तृत्वं नोपजायते । अनाद्यकृत्रिमस्यास्य विश्वस्येति विनिश्चयः ॥ ११३॥ चराचरमिदं विश्वं सशैलवनसागरम् । कृत्वा स्वोदरमध्यस्थं संरक्षति जनार्दनः ॥ ११४॥ असौ सन्तिष्ठते कस्मिन् स किं लोकादहिर्भवः । तस्याङ्गनाश्च सैन्यानि क तिष्ठन्ति सहोदराः ॥ ११५ ॥ जानकीहरणासक्तः कृतदोषो दशाननः । हतो रामेण तौ स्यातां लोकान्तर्वर्तिनौ न किम् ॥११६॥ सारथ्यं पांडुपुत्रस्य कृत्वा कृष्णो निपातयेत् । कौरवान् निखिलास्तेपि विश्वान्तर्वर्तिनो न किम् ॥११७॥ मायेयं तस्य तद्रूपमनन्तं निर्विकारकम् । तस्मात्तस्योदरे माति विश्वं तु मानगोचरम् ॥ ११८॥ विश्वगर्भमनन्तं स्याव्योमैकं तदचेतनम् । असावप्यनया युक्त्या विष्णुर्भवत्यचेतनः ॥ ११९ ॥ दशगर्भाश्रितं जन्म निर्विकारस्य जायते । असंभाव्यं भवत्येतद्वंध्या पुत्रानुकारिणाम् ॥ १२० ॥ अनेन हेतुनाऽकिंचित्करः स्यान्मधुसूदनः । तस्मान्न संभवत्यस्य विश्वरक्षाधिकारिता ॥ १२१ ॥ १ म. ख.। २ ण. क. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy