SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १६० श्रीवामदेवविरचितोतयोस्तत्राभवत्पुत्रो जाम्बुवानिति विश्रुतः ॥१०॥ यस्यास्ति महती शक्तिर्विश्वकर्तृत्वसंभवी । स्वल्पतराय राज्याय किमसौ तप्यते वृथा ॥ १०१ ॥ न शक्नोत्यात्मनस्त्यक्तुं यो दुःखं विरहात्मकम् । कथं स्थाद्विश्वकर्तृत्वे स्वामित्वं तस्य वेधसः ॥ १०२ ॥ यद्येवं सकलं विश्वं कुरुते कमलासनः । तदा संतिष्ठते कासौ सृष्टिनिर्मापणक्षणे ॥ १०३ ॥ यत्र स्थित्वा करोत्येष तदेव स्यान्महीतलम् । तत्रापि शेषभूतानि तत्कृर्तृत्वमपार्थकम् ॥ १०४ ॥ सृष्टिनिर्मापणे कस्मादानीतो भूतसंग्रहः । कानि वा तत्र शस्त्राणि योग्यानि शिल्पिकर्मणि ॥ १०५ ॥ विनोपकरणैस्तेन विश्वं केभ्यो विधी: पुर पृथिव्यायैस्तु कर्तृत्वं मिथ्या तेषामसंक्षधात् ॥ १०६॥ भूम्यादिपंचभूतानां यदि पूर्वमसंभवः । नास्त्यसंभविनां को संभविनां तु का क्रिया ॥ १०७ ॥ कर्तृत्वं द्विविधं वस्तुकर्तृत्वं वैक्रियोद्भवम् । आद्यं घटादिकर्तृत्वं द्वितीयं देवनिर्मितम् ॥१०८॥ पर्यायानां घटादीनां कौतस्कुतीह कर्तृता । विना भूतैः पृथिव्याद्यैर्घटनाया असंभवात् ॥ १०९॥ नै यान्ति मनसा कर्तुं विर्वर्णाः पार्थिवा अपि । कथं कस्मात्समानीता तद्योग्या जीवसंहतिः ॥ ११० ॥ १ जाम्बुवंतोऽति ख. :२ पर्यायाणि ख.। ३ नायान्ति. ख.। ४ पर्यायाः ख.। Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy