________________
१५८
श्री वामदेव विरचितो
शारीरं मानसं दुःखमन्योन्योदीरितं च यत् । सहन्ते नारका नित्यं पूर्वपापविपाकतः ॥ ७९ ॥ लेश्यास्तिस्रोऽशुभास्तेषां संस्थानं हुंडसंज्ञकम् । अतिक्लिष्टाः परीणामा लिंगं नपुंसकाव्हयम् ॥ ८० ॥ क्षारोष्णतीव्रसद्भावनदी वैतरणीजलात् । दुर्गन्धमृन्मयाहारार्द्धजते दुःखमद्भुतम् ॥ ८१ ॥ अक्ष्णोर्निर्मीलनं यावन्नास्ति सौख्यं च तावता । नरके पच्यमानानां नारकाणामहर्निशम् ॥ ८२ ॥ तस्मान्निर्गत्य कष्टेन पशुतां यान्ति ते जनाः । तत्र दुःखमसह्यं च जननी गर्भगव्हरे ॥ ८३ ॥ गर्भाद्विनिसृतानां स्यात कियत्कालावशेषतः । यज्ञादौ विहितं कर्म तत्तथैवोपतिष्ठति ॥ ८४ ॥ एवं भ्रमन्ति संसारे स्मृतिं लब्ध्वा पुनः पुनः । ज्ञात्वैवं क्रियतां भव्यैः प्राणिनां प्राणरक्षणम् ।। ८५ ।। यज्ञे पशुवधकृतेन स्वर्गप्राप्तिदूषणम् । गोयोनिर्वद्यते नित्यं न चास्यं मलिनं यतः । पश्य लोकस्य मूर्खत्वं वर्तते हेतुवर्जितम् ॥ ८६ ॥ तिरश्री गौस्तृणाहारी नित्यं विण्मूत्रलालसा | तस्या अपरभागस्य कथं देवत्वमागतम् ॥ ८७ ॥ Fevear वन्द्या सा रज्ज्वा किं बन्ध्यते दृढम् । दुग्धार्थ पीड्यते दण्डैराक्रन्दन्ती स्वभाषया ॥ ८८ ॥ तस्याङ्गे देवताः सर्वे तिष्ठन्ति सागरा नगाः । कथं गौर्यज्ञवेलायां वध्यते सा द्विजाधमैः ॥ ८९ ॥
१ तदङ्गे ख. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org