SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ श्रीवामदेवविरचितो स्वकर्मफलपाकेन गोत्रजाः पशुतां गताः । श्राद्धार्थं घातनात्तेषां किन्न स्यात्तत्पलादनम् ॥ ४४ ॥ कथंचित्पशुतां प्राप्तः पिता स्वकर्मपाकतः । हत्वा तमेव तन्मांसं तत्तृप्त्यैर्भक्षितं भवेत् ॥ ४५ ॥ बकनामा द्विजस्तस्य पिता मृत्वा मृगोऽभवत् । तच्छ्राद्धे तत्पलं दत्त्वा द्विजेभ्यस्तेन भक्षितम् ॥ ४६ ॥ श्रुत्वाप्येवं पुराणोक्तं सुप्रसिद्धं कथानकम् । तथाप्यज्ञाः प्रकुर्वन्ति पि गौ मांसतर्पणम् ॥ ४७ ॥ मांसाशिनो न पात्रं स्युर्मासदानं न चोत्तमम् । तत्पितृभ्यः कथं तृप्त्यै भुक्तं मांसाशिभिर्भवेत् ॥ ५८ ॥ भुक्तेऽन्यैस्तृप्तिरन्येषां भवत्यस्मिन् कथंचन । तत्तत्स्वर्गं गता जीवास्तृप्ति गच्छन्ति निश्चितम् ॥ ४९ ॥ पुत्रेणार्पितदानेन पितरः स्वर्गमवाप्नुयुः । तर्हि तत्कृतपापेन तेऽपि गच्छन्ति दुर्गतिम् ॥ ५० ॥ अन्यस्य पुण्यपापाभ्यां भुनक्त्यन्यः शुभाशुभम् । tri विपरीतं तन कापि श्रूयते भुवि ॥ ५१ ॥ मृत्वा जीवोsथ गृहाति देहमन्यं हि तत्क्षणे । पितृत्वं कस्य जायेत वृथैवं जल्पनं ततः ॥ ५२ ॥ स्वकृतपुण्यपापाभ्यां प्राप्तिः स्यात्सुखदुःखयोः । तस्माद्भव्याः कुरुध्वं तद्यस्माच्छ्रेयो भवेत्सदा ॥ ५३ ॥ अथैके प्रवदन्त्येवं भूतोयाग्निनगादिषु । भूतग्रामेषु सर्वेषु विष्णुर्वसति सर्वगः ॥ ५४ ॥ १५४ १ पिताऽथ कर्म पाकतः ख । २ पितुः । ३ पितृचरमृगस्य ४ पितॄणो क. । तद्वत्स्वर्ग क. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy