SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः १५५ उक्तं च पुराणेजले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके । ज्वालमालाकुले विष्णुः सर्व विष्णुमयं जगत् ॥१॥ वसेत्सर्वाङ्गिदेहेषु विष्णुः सर्वगतो यदि ।। वृक्षादिधातनात्सोऽपि हन्यमानो न किं भवेत् ॥ ५५ ॥ मत्स्यकूर्मवराहाद्या विष्णोर्गर्भाश्रया दश । मत्स्यादिशैलविम्बानां पूजनं क्रियते ततः ॥ ५६ ।। तस्मान्मत्स्यादिजीवानां चैतन्यसंयुजां जनैः । प्राणाभिघातनं तेषां श्राद्धादौ क्रियते कथम् ॥ ५७ ॥ सर्वेष्वङ्गप्रदेशेषु प्रत्येकं देहधारिणाम् । ब्रह्माद्या देवताः सन्ति वेदार्थोऽयं सनातनः ।। ५८ ॥ उक्तं च पुराणेनाभिस्थाने वलेब्रह्मा विष्णुः कण्ठे समाश्रितः। तालमध्यस्थितो रुद्रो ललाटेच महेश्वरः॥१॥ नासाने तु शिवं विद्यात्तस्यांते च परापरं। परात्परतरं नास्ति शालस्यायं विनिश्चयः ॥२॥ यज्ञादावामिषं तेषां मुक्त छागादिदेहिनाम् । यदि स्वर्गाय जायेत नरक केन गम्यते ॥ ५९ ॥ तदङ्गे चेन विद्यन्ते तच्छास्त्रं स्यान्निरर्थकम् । सन्ति ते चेत्कथं हन्या निघृणैर्यज्ञकर्मणि ।। ६० ॥ इति मांसेन पितृवर्गतृप्तिदूषणम् । १ दिघा. ख. । २ अस्याग्रे श्लोको.' स-पाठः। ३ इति ख-पुस्तके नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy