________________
भावसंग्रहः ।
१५३
इन्द्रियविषयासक्ताः कषायै रंजिताशयाः । न तेषां स्नानतः शुद्धिगृहव्यापारवर्तिनाम् ॥ ३७॥ तीर्थाम्बुस्नानतः शुद्धिं ये मन्यन्ते जडाशयाः । परिभ्रमन्ति संसारे नानायोनिसमाकुले ॥ ३८ ॥ तपसा जायते शुद्धिर्जीवस्येन्द्रियनिग्रहात् । सम्यक्त्वज्ञानयुक्तस्य वन्हिना कनकं यथा ।। ३९ ॥ द्विकलम्व्रतशीलदयाधर्मगुप्तित्रयमहीयसाम् । सब्रह्मचर्यनिष्ठानां स्वात्मैकाग्रचेतसाम् ॥४०॥ स्वभावाशुचिदेहस्य संभवेऽपि प्रजायते । विशुद्धत्वं यतीशानां जलस्नानं विना सदा ॥४१॥ उक्तं च गीतायां
अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः ।
उभयोरन्तरं दृष्ट्वा कस्य शौचं विधीयते ॥१॥ आत्मा नदी संयमतोयपूर्णा सत्यावहा शीलतटा दयोर्मिः। तत्राभिषेक कुरु पांडपुत्र ! न बारिणा शुद्धयति चान्तरात्मा ॥२॥ तस्माच्छाद्ध प्रपद्यन्ते जिनोद्दिष्टाध्वकोविदाः । भव्याः स्वात्मसुखानन्दस्यन्दतोयावगाहनात् ॥ ४२ ॥
तीर्थस्नानदूषणम् ।
मांसेन पितृवर्गस्य प्रीणनं यैर्विधीयते । भक्षितं तैर्निजं गोत्रमीदृशीश्रुतिकोविदैः ॥४३॥ १ अस्याग्रे 'श्लोकौ ' इति-ख----पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org