________________
भावसंग्रहः।
१५१
आद्यं विना चतुर्भावाः क्षपकश्रेणिसंभवाः । विनौपशमिकं मिश्र त्रयः स्युर्योग्ययोगिनोः ॥ १९॥ सिद्धे द्वावेव जायेते क्षायिकः पारिणामिकः । गुणस्थानान्यतो वक्ष्ये तत्तल्लक्षणलक्षितम् ॥ २० ॥ मिथ्या सासादनं नाम मिश्रमसंयताव्हयम् । विरताविरताख्यं स्यात् प्रमत्तं चाप्रमत्तकम् ॥ २१ ॥ अपूर्वकरणाभिख्यं ततोऽनिवृत्तिसंज्ञकम् । मूक्ष्मलोभात्मक तस्मादुपशान्त कषायकम् ।। २२॥ क्षीणमोहं सयोगाख्यमयोगिस्थानमन्तिमम् । एतानि गुणस्थानानि प्रभवन्ति चतुर्दश ॥ २३ ॥ एतैस्त्यक्ताः प्रजायन्ते सिद्धा लोकोत्तमोत्तमाः । स्वशुद्धात्मसुखानन्दरसास्वादनतत्पराः ॥ २४ ॥ तवाद्यं यद्गणस्थानं मिथ्यात्वं नाम जायते । पंचांनां दृष्टिमोहाख्यकर्मणामुदयोद्भवम् ॥ २५ ॥ तत्रास्त्यौदयिको भावो मिथ्याकर्मोदयोद्भवः । मुख्यतस्तद्वशाज्जन्तोर्वेपरीत्यं प्रजायते ॥ २६ ॥ अदेवे देवताबुद्धिरतत्वे तत्वनिश्चयः । मिथ्यात्वाविलचित्तस्य जीवस्य जायते तथा ॥ २७ ॥ मधुरं जायते तीक्ष्णं तीक्ष्णं तु मधुरायते । पित्तज्वरार्तजीवस्य वैपरीत्यं यथाखिलम् ॥ २८ ॥ १ सप्तानां ख. । २ मिथ्यात्वमनन्तानुन्धिचतुष्कं चेति पंचानां दृष्टिमोहसंज्ञा मिश्रसम्यक्त्वकानुमेलने च सप्तानामपि । तदुक्तं--
एकधा त्रिविधा वा स्यात्कर्म मिथ्यात्वसंज्ञकम् । क्रोधाद्याद्यचतुष्कंच सप्तैते दृष्टिमोहनम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org