SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १५० श्रीवामदेवविरचितो कर्मोदयाद्भवो भावो जीवस्यौदयिकस्तु यः । स्वभावः परिणामः स्यात्तद्भवः पारिणामिकः ॥ ९ ॥ द्वौ नवाष्टादशैकाग्रविंशतिश्च त्रयस्तथा । इत्यौपशमिकादीनां भावानां भेदसंग्रहः ॥ १०॥ स्यादुपशमसम्यक्त्वं चारित्रं च तथाविधम् । इत्यौपशमिको भावो भेदद्वयमुपागतः ॥ ११ ॥ सम्यक्त्वं दर्शनं ज्ञानं वृत्तं दानादिपंचकम् । स्वस्वकर्मक्षयोद्भूतं नवैते क्षायिके भिदः ॥ १२ ॥ द्विकलं--- दर्शनत्रयमाय च ज्ञानचतुष्कमादिमम् ।। क्षयोपशमसम्यक्त्वं व्यज्ञानं दानपंचकम् ॥ १३ ॥ रागोपयुक्तचारित्रं संयमासंयमस्त्विति । अष्टादश प्रभेदाः स्युः क्षायोपशमिकेऽजसा ।। १४॥ चतस्रो गतयो वामं त्रयो वेदास्त्वसंयमः। लेश्याषट्रमसिद्धत्वं चत्वारश्च कषायकाः ॥१५॥ अज्ञानत्वेन संयुक्ताः प्रभेदा एकविंशतिः । औदयिकस्य भावस्य निर्दिष्टा भाववेदिभिः ॥ १६ ॥ अभव्यत्वं च भव्यत्वं जीवत्वं च त्रयः स्मृताः । पारिणामिकभावस्य भेदा गणधरैः स्फुटम् ।। १७ ॥ मिथ्यादित्रिषु मिर्हाद्यास्त्रयो ह्यसंयतादिषु। चतुर्पु चोपशांतेषु चतुर्पु निखिलाः पृथक् ॥ १८॥ १ औपशमिकं । २ सरागसंयमं । ३ मिथ्यादर्शनं । ४ मिश्रौदयिकमारिणामिकाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy