SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ छेदशास्त्रम् । अस्या अर्थः-ब्राह्मणवधायां मासाष्टकं एकान्तरं अन्ते षष्ठं । क्षत्रियघाते चतुर्मासमेकान्तरमन्ते षष्ठं । वैश्यवधे द्विमासमेकान्तरमन्ते षष्ठं । शूद्रवधे मासमेकान्तरं अन्ते षष्ठं । ग्राममृगे चतुष्पदवधे पंचदशदिवसमेकान्तरं अन्ते षष्ठं । तणमंसासिविहंगा उरपरिसप्पाण जलचरवहम्मि । चउदसआई काउं णवखमणाणि मलहरणं ॥ १८ ॥ तृणमांसा शिविहंगानां उरःपरिसर्पाणां जलचरवधे । चतुर्दशादिकं कृत्वा नवक्षमणानि मलहरणं ॥ अस्या अर्थः--तृणचराणां वधे चतुर्दशोपवासाः। मांसाहारिचतुष्पदवधे त्रयोदशोपवासाः । पक्षिवधे द्वादशोपवासाः। सर्पवधे एकादशोपवासाः । शरर(ट) वधे दशोपवासाः । जलचरवधे नवोपवासाः ॥ एवं प्रथमव्रतमुपगतम् । सइ पच्चक्ख परोक्खे उभयं तियकरण मोसभासिस्स । काओसग्गुववासा एगुत्तर असइ संठाणं ॥ १९ ॥ सकृत् प्रत्यक्ष परोक्षे उभयस्मिन् त्रिकरणे मृषाभाषिणः । कायोत्सर्गोपवासा एकोत्तरा असकृत् संस्थानं ॥ अस्या अर्थः-एकवार प्रत्यक्ष असत्यमुक्ते कायोत्सर्ग । परोक्षे असत्यमुक्त उपवासमेकं । प्रत्यक्षपरोक्षे असत्यमुक्ते उपवासद्वयं । मनोवचनकाये असत्यमुक्ते उपवासत्रयं । बहुवारं प्रत्यक्षे कल्याणमेकं । परोक्षेऽपि पंचकल्याणं । उभयासत्येऽपि पंचकल्याणम् ॥ एवं सत्यव्रतम् । सइ सुण्णम्हि समक्खे अणासभोगे अदत्तगहणम्मि । काउस्सगुववासा एगुत्तर असइ मूलगुणं ॥ २० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy