________________
प्रायश्चित्तग्रंथः।
AAAA
एकः पंचामृतैः प्रोक्तो मोक्कूला द्वादशोदिताः । एकादशाभिषेकाः स्युः पूजा एकादशाहताम् ॥ कायोत्सर्गाश्च तावन्तः चतुर्विंशतिभुक्तयः। ताम्बूलो पप्रदानानि तावन्त्येव भवन्ति हि ।। २३ ॥ सरटादिनीवधाते प्रायश्चित्तमिदं भवेत् । एकादशोन्सवासाः स्युरेकभुक्तानि षोडश ॥ अभिषेकाः षोडशोक्ता जिनपूजाश्च षोडश । कुसुमानि सहस्राणि षष्टिः षष्टिश्च भुक्तयः॥ षष्टिस्ताम्बूलदानानि विदातव्यानि यत्नतः ॥२४॥ मृतो जलचरी जन्तुर्यदि शुद्धिरियं पुनः । उपवासैकभुक्तानि पृथगेकदशैव हि ॥ २५॥ गृहे वाहे पशूनां तु सरणे शुद्धिरीहशी। एकादशोपवासाः स्युरेकभुक्तानि विंशतिः॥ एको महाभिषेकस्तु कलशेरैष्टाशतैरपि । पंचामृताभिषेकाश्च पंचान्ये विंशतिः स्मृताः ॥ गौरेकाहारदानानि पंच पंचाशदेव हि । पुष्पपंक्तिसहस्राणि चन्दनं पलपंचकं ॥ संघपूजा विधातव्या पंचनिष्कैर्विचक्षणैः ॥ २६॥ महिषी म्रियते तर्हि त्रयोविंशतिरीरिताः । उपवासाश्चतुश्चत्वारिंशदेवैकभुक्तयः ।। एकोऽभिषेकः कलशैः पंच पंचामृतैस्तथा। त्रिंशन्मोक्कूलाभिषेका अष्टाशीतिः प्रभुक्तयः॥ कुसुमानि सहस्राणि विंशतिस्त्रिशताधिकाः ।। त्रयः पलश्चन्दनस्य पण्डितैः परिकीर्तिताः॥ २७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org