SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १७० प्रायश्चित्तसंग्रहे प्रत्याख्यातं पुनर्भुक्त्वा छर्दिर्भवति चेद्वमेत् । . न चेदेकोपवासः स्यादेकभक्तद्वयं तथा ? चत्वार्याहारदानानि चत्वारि स्नपनानि च । पुष्पाणां त्रीणि सहस्राणि श्रीखण्डस्य पलद्वयं ॥ १९ ॥ गर्भस्य खण्डनाकर्षे गर्भस्य दहने तथा । प्रायश्चित्तं भवेत्तत्र द्वादशानशनानि च ॥ कुंभाभिषेकद्वितीयमेकभक्तानि विंशतिः । पंचामृताभिषेकाश्च पंचान्ये विंशतिः स्मृताः ॥ पंचाशद्भुक्तिदानानि तथा सुमनसां पुनः । सहस्त्राणि द्वादश स्युः गौरेकात्र प्रदीयते । श्रीखण्डस्य पलाः पंच पूजा निष्कत्रयेण सा ॥ २० ॥ यो निहन्ति नरो जीवं तृणभक्षिणमस्य तु । प्रायश्चित्तं प्रजायेत उपवासाश्चतुर्दश ॥ अष्टाविंशतिरुक्तानि सकृद्भुक्तानि देशकैः । कलशाभिषेकौ द्वौ स्तोऽन्ये द्वाविंशतिश्च मोक्कूलाः॥ गौरेकाहारदानानि पंचाशत्कुसुमानि तु । सहस्राणि द्वादः, स्युरिति प्रोक्तं मनीषिभिः ॥ २१ ॥ प्रमादान्मांसभक्षश्चेम्रियते जन्तुरत्र तु। उपवासाः षोडशोक्ता एकभुक्तानि विंशतिः ॥ कलशाभिषेकौ द्वौ स्तोऽमृतैः पंच प्रकीर्तिताः । चत्वारिंशन्मोक्कूलाः स्युर्भुक्तयः स्युः शतत्रयं ॥ गौरेका त्रीणि लक्षाणि पुष्पं गन्धपला नव ॥ २२ ॥ प्रमादान्मियते पक्षी तर्हि शुद्धिरियं भवेत् । उपवासा द्वादशाभिषेक एको भवेद्धटैः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy