________________
प्रायश्चित्त-चूलिका।
तपस्विनीनां, संकल्पेन-संप्रकल्पिते धृते । तृतीये मूलमिष्यते--तृतीये वस्त्रे गृहीते सति आर्याणां, मूलं मासिकं, इष्यते निश्चीयते ॥ ११९ ॥
याचितायाचितं वस्त्रं भैक्ष्यं च न निषिद्धयते ।
दोषाकीर्णतयाणामप्रासुकविवर्जितम् ॥ १२० ॥ ___ याचितं-भिक्षित, अयाचितं-स्वयमेवोपलब्धं च । वस्त्रं-अम्बरं । भैक्ष्यं-भिक्षाणां समुहश्च । न निषिध्यतेन निवार्यते । दोषाकीर्णतया-दोषबाहुल्येन हेतुभूतेन । आर्याणां-विरतिकानां । अप्रासुकवि. वर्जितं-सावद्यविरहितम् ॥ १२० ॥
तरुणी तरुणेनामा शयनं गमनं स्थितिम् ।
विदधाति ध्रुवं तस्याः क्षमाणां त्रिंशदाहृता ॥ १२१ ॥ __तरुणी-युवतियॊवनस्था । तरुणेन-यना । अमा-सह । शयनंस्वापं । गमनं--यानं । स्थिति--स्थानं कायोत्सर्ग सहासनं वा । या आर्या, विदधाति--करोति । ध्रुवं--निश्चितं । तस्याः--पूर्वोक्तायाः संयतिकायाः । क्षमाणां--क्षमणानां । त्रिंशत्, आहृता-उदाहृता परिकथिता ॥ १२१ ॥
तारुण्यं च पुनः स्त्रीणां षष्ठिवर्षाण्यनूदितम् ।
तावन्तमपि ताः कालं रक्षणीयाः प्रयत्नतः ॥ १२२॥ तारुण्यं च पुनः-तरुणत्वं यौवनं तु । स्त्रीणां-योषाणां । षष्ठिवर्षाणि-पष्ठिसंवत्सरान् यावत् । अनूदितं--अनूक्तं कथितं । तावन्तमपि ताः कालं-तावन्तमाप तावन्तं च, ता आर्यकाः, कालं समयं षष्ठिवर्षप्रमाणं । रक्षणीयाः-पालनीयाः । प्रयत्नतः--तात्पर्यात् ॥ १२२ ॥
दर्पण संयुताथार्या विधत्ते दन्तधावनं ।
रसानां स्यात् परित्यागश्चतुर्मासानसंशयम् ॥ १२३ ॥ - दर्पण-अहंकारेण । संयुता--समन्विता । अथ-अथवा । आर्या --- विरतिका। विधत्ते--करोति । दन्तधावनं-दन्तघर्षणं । यदि तदा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org