SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १४८ प्रायश्चित्तसंग्रहे मृजलादिप्रमां ज्ञात्वा कुड्यादीनां प्रलेपने। कायोत्सर्गादिमूलान्तमार्याणां प्रवितीर्यते ॥ ११७ ॥ मृजलादिप्रमां-मृन्मृत्तिका, जलं पानीयं, आदिशब्देनाग्निवायुप्रत्येकानन्तवनस्पतीनां च, प्रमां प्रमाणं । ज्ञात्वा-अवबुध्य । कुड्यादीनां भित्तिभूमिभेषजभाण्डादिद्रव्याणां । प्रलेपने-उपदेहने कृते सति । प्रलेपनग्रहणमुपलक्षणमात्रं तेनाग्निसमारंभादिक्रियाविशेषेषु च सत्सु परिमाणमवगम्य देयं प्रायश्चित्तं । कायोत्सर्गादिमूलान्तं-कायोत्सर्गस्तनूत्सर्गः, तदादि तत्प्रभृति, मूलं पंचकल्याणं, तदन्तं तत्पर्यवसानं । आर्यागां-संयतिकानां । प्रवितीर्यते--प्रदीयते । विडालपदादिमात्रेषु मृत्तिकादिषु कायोत्सर्गः । सर्वोत्कृष्टं पंचकल्याणं भवति मध्ये विकल्पः । उक्तं च पुढविं विडालपयमेत्तमक्खणंतो जलंजलिं तह य । दीवयसिहापमाणं हुयासणं विज्जवंतो य ॥ १ ॥ वियणेणं वीयंतो वाराओ दुण्णि तिणि वा होई। एक्कं हि य बहुदोसे काउस्सग्गो वि तं लहई ॥ २ ॥ वस्त्रस्य क्षालने घाते विशोषस्तनुसर्जनम् । प्रासुकतोयेन पात्रस्य धावने प्रणिगद्यते ॥ ११८ ॥ वस्त्रस्य-चीवरस्य । क्षालने-धावने । घाते-अपां अप्कायिकानां घाते विराधने सति । विशोषः-विशोषणमुपवासः प्रायश्चितं । तनु. सर्जनं--कायोत्सर्गः । प्रासुकतोयेन-प्रासुकपानीयेन । पात्रस्य-भिक्षाभाण्डस्य । धावने-प्रक्षालने कृते सति । प्रणिगद्यते--परिकीर्यत इति यथाक्रमं योज्यम् ॥ ११८ ॥ वस्त्रयुग्मं सुबीभत्सलिंगप्रच्छादनाय च । आर्याणां संकल्पन तृतीये मूलमिष्यते ॥ ११९॥ वस्त्रयुग्मं-वस्त्रयुगलं । सुबीभत्सलिंगप्रच्छादनाय-सुबीभत्सं सुष्टु बीभत्समदर्शनीय, लिंग रूपं, तस्य प्रच्छादनाय पिर्धानार्थ । आर्याणां-- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy