SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्त- चूलिका | तृणकाष्ठकवाटानामुद्घाटनविघट्टने । चातुर्मास्याश्चतुर्थं स्यात् सोपस्थानमवस्थितिम् ॥ ८७ ॥ तृणकाष्ठकवाटानां तृणकाष्ठकवाटकादीनां वस्तूनां । उद्घाटने - विवरणे च । विघट्टने - सम्बन्धे च कृते सति । चातुर्मास्याः -- चतुर्यो मासेभ्योऽनन्तरं । चतुर्थ - उपवासः । स्यात् भवेत् । सोपस्थानंसप्रतिक्रमणं - | अवस्थितिं - निश्चितं ध्रुवम् ॥ ८७ ॥ --- --- १३९. ---- शश्वद्विशोधयेत् साधुः पक्षे पक्षे कमण्डलुम् । तदशोधयतो देयं सोपस्थानोपवासनम् ॥ ८८ ॥ शश्वत् - सर्वकालं । विशोधयेत् — अन्तः प्रक्षालयेत् सम्मूर्च्छनानेराकरणाय । साधुः - मुनिः । पक्षे पक्षे – प्रतिपक्षं । कमण्डलुं -- जलकुण्डिकां । तदशोधयतः -- तत्कमण्डलुं अशोधयतः अनिर्लेपयतः । देयंदातव्यं । सोपस्थानोपवासनं -- सोपस्थानं सप्रतिक्रमणं, उपवासनं उप वासः ॥ ८८ ॥ मुखं क्षालयतो भिक्षोरुदविन्दुर्विशेन्मुखे | आलोचना तनूत्सर्गः सोपस्थानोपवासनम् ॥ ८९ ॥ मुखं- आस्यं । क्षालयतो-- धावयतः सतः । भिक्षोः - साधोः । उदविन्दुः- उदक विन्दुः । विशेत् यदि प्रविशति । मुखे वक्त्रे | तदानीं आलोचना प्रायश्वितं । तनूत्सर्गः कायोत्सर्गः | सोपस्थानोपवासनं - सोपस्थानं सप्रतिक्रमणं, उपवासनं उपवासः, एतानि प्रायश्वित्तानि भवन्ति ॥ ८९ ॥ Jain Education International आगन्तुकाश्च वास्तव्या भिक्षाशय्यौषधादिभिः । अन्योन्यागमनाद्यैश्च प्रवर्तन्ते स्वशक्तितः ॥ ९० ॥ आगन्तुकाः प्राघूर्णकाः । वास्तव्याश्च -- स्थायिनोऽपि यतयः भिक्षाशय्यौषधादिभिः -- भिक्षा चर्या, शयनं संस्तरः, औषधं भेषजं, For Private & Personal Use Only www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy