SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १३८ प्रायश्चित्तसंग्रहे—. लोहोपकरणे - अयोमयोपध सूचीनखरदनक्षुरप्रमुखे । नष्टे - अपलापिते सति । स्यात् -- भवेत् । क्षमा-उपवासः प्रायश्चित्तं । अंगुलमानतः - अंगुलप्रमाणेन । यावन्ति तस्य नष्टलोहोपकरणस्याङ्गुलानि तावन्ति क्षमणानि प्रायश्चित्तं भवति । केचिद्धनाङ्गलैरूचुः - केचिदाचार्याः घनाकुलैस्तस्य लोहोपकरणस्य घनीकृतस्य यावन्ति अंगुलानि भवन्ति तावन्ति क्षमणानि सन्तीत्यूचुर्जगदुः कथितवन्तः । कायोत्सर्गः परोपधौ --परस्यान्यस्य च ( व . ) कलक प्रतिलेखन कमण्डलुप्रभृतेरुपधेरुपकरणस्य नाशे सति कायोत्सर्गः प्रायश्चित्तं भवति ॥ ८४॥ रूपाभिघातने चित्तदूषणे तनुसर्जनम् । स्वाध्यायस्य क्रियाहानावेवमेव निरुच्यते ॥ ८५ ॥ रूपाभिघातने —- आलिखितमनुष्यादिरूपस्य प्रतिबिंबस्य अभिघातने परिमार्जने कृते सति । चित्तदूषणे - विषयाभिलाषादिदुष्परिणामोत्पत्तौ च सत्यां । तनूत्सर्जनं -- कायोत्सर्गः प्रायश्चित्तं । स्वाध्यायस्य क्रियाहानौ - स्वाध्यायत्रियां श्रुतभक्तिपूर्वी विधाय आगमपदजनपरिपठनविधानस्य केनचित्कारणेनाऽकरणे सति । एवमेव --- पूर्वोक्तक्रमेणैव कायोत्सर्ग एव प्रायश्वित्तं । निरुच्यते - निश्चीयते ॥ ८५ ॥ C योsप्रियङ्करणं कुर्यादनुमोदेत चाथवा । दूरस्थोऽसौ जिनाज्ञायाः षष्ठं सोपस्थितिं व्रजेत् ॥ ८६ ॥ यः -- यः कश्चित् साधुः । अप्रियङ्करणं – अप्रियकरणमनिष्टविधानं स्वाध्यायनियमवन्दनादिक्रियाणां हीनादिकरणं । कुर्यात् करोति । अनुमोदेत च-- अनुमन्येत च । अथवा – अहोस्वित् । दूरस्थोऽसौ जिना - ज्ञायाः - जिनागमात् तत्रस्थो बहिर्भूतः; असौ स साधुः पूर्वोक्तः । षष् सोपस्थितिं व्रजेत् — सोपस्थानं षष्ठं षष्ठप्रायश्चित्तं व्रजेद्रच्छति प्राप्नोति ॥ ८६ ॥ - # १ सोऽपि स्थिति इति पाठः पुस्तके ठीकानुसारेण परिवर्तितः । - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy