________________
विन्ध्यगिरि पर्वत पर के शिलालेख
२१७
का त्वं कामिनि कथ्यतां श्रुतमुनेः कीर्त्तिः किमागम्यते ब्रह्मन् मत्प्रियसन्निभो भुवि बुधस्सम्मृग्यते सर्व्वतः । नेन्द्रः किं सच गोत्रभिद धनपतिः किं नास्त्यसैौ किन्नर : शेष: कुत्रगतरस च द्विरसनो रुद्रः पशूनां पतिः ।। ५२ ।। वाग्देवताहृदय-रञ्जन - मण्डनानि
मन्दार - पुष्प-मकरन्दर सोपमानि ।
प्रानन्दिताखिल-जनान्यमृतं वमन्ति
कर्णेषु यस्य वचनानि कवीश्वराणां ॥ ५३ ॥
समन्तभद्रोऽप्यसमन्तभद्रः
श्री- पूज्यपादाऽपि न पूज्यपादः । मयूरपिच्छा ऽप्य मयूरपिच्छ
श्चित्रं विरुद्धोऽप्यविरुद्ध एषः ॥ ५४ ॥
एवं जिनेन्द्रोदितधर्ममुचैः प्रभावयन्तं मुनि वंश-दीपिनं । अदृश्यवृत्त्या कलिना प्रयुक्तो वधाय
रोगस्तमवाप
दूतवत् ।। ५५ ।। यथा खलः प्राप्य महानुभावं तमेव पश्चात्कबलीकरोति । तथा शनैस् सोऽयमनुप्रविश्य व पूर्व्वबाधे प्रतिबद्धवीर्यः ||५६ || अङ्गान्यभूवन् सकृशानि यस्य न च व्रतान्यद्भु त-वृत्त-भाजः । प्रकम्पमापद्वपुरिद्वरागान्न चित्तमावस्यक मत्यपूर्व ॥ ५७ ॥ समक्ष मागें रुचिमेष धीरो मुदं च धर्मे हृदये प्रशान्ति समादधे तद्विपरीतकारिण्यस्मिन् प्रसर्पत्यधिदेहमुच्चैः ५८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org